HRTC- ई-बसक्रयणार्थं ३२७ कोटिरूप्यकाणि अनुमोदितानि, द्विसहस्रं टाइप-२ विद्युत्बसक्रयणस्य प्रक्रिया निरन्तरं वर्तते – मुख्यमंत्री
हिमसंस्कृतवार्ता: – शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः हिमाचलपथपरिवहननिगमस्य सभायाः अध्यक्षतां कुर्वन् अवदत् यत् राज्यसर्वकारः निगमाय आर्थिकहानितः उद्धृत्य निगमं स्वनिर्भरं कर्तुं सर्वसम्भवं सहायतां करिष्यति। सः अवदत् यत् बससेवासुविधाः राज्यस्य जनानां जीवनरेखारूपेण कार्यं कुर्वन्ति यतः एषा एव राज्यस्य मुख्ययानसाधनम् अस्ति। हिमाचलपथपरिवहननिगमः जनानां कृते सुलभाः सुगमाः च परिवहनसुविधाः प्रदाति तथा च निगमस्य १२ सहस्रकर्मचारिण: अस्य संस्थायाः आधारा: सन्ति। मुख्यमन्त्री उक्तवान् यत् निगमं हरितपरिवहनव्यवस्थायां परिणमति विश्वसनीयपरिवहनसेवायै च निगमे विद्युत्बसानां समूहं प्रविष्टम्। सम्प्रति निगमस्य ११० ई-बसयानानि ५० ई- टैक्सीयानानि च प्रचलन्ति। एतदतिरिक्तं निगमस्य आर्थिकहानिभ्यः पुनरुत्थानाय कार्याणि क्रियन्ते। सः अवदत् यत् विद्युत्बसक्रयणार्थं ३२७ कोटिरूप्यकाणां व्यवस्था कृता, अतिरिक्तद्वयसहस्रं टाइप-२ विद्युत्बसक्रयणस्य च प्रक्रिया प्रचलति।
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् निगमः धार्मिकस्थानेषु उत्तमयानसुविधाः प्रदातुं प्रयतते। प्रथमचरणे भक्तानां सुविधायै अयोध्यानगरं प्रति षट् बसयानानि प्रदत्तानि सन्ति, आवश्यकतानुसारं तेषां संख्या वर्धयितुं शक्यते। उपमुख्यमन्त्री मुकेश अग्निहोत्री इत्यनेन उक्तं यत् निगमः राज्यस्य दुर्गमक्षेत्रेषु विश्वसनीययानसेवा प्रदाति। सः अवदत् यत् विगतसप्तमासेभ्यः निगमस्य कर्मचारिभ्यः पेन्शनभोक्तृभ्यः च प्रत्येकमासस्य प्रथमदिने वेतनं पेन्शनं च प्राप्यते, यदा तु पूर्वभाजपासर्वकारे अष्टतः दशदिवसानन्तरं कर्मचारिभ्यः पेन्शनभोक्तृभ्यः च वित्तीयदेयता भवति स्म ।