HPCM : कर्करोगचिकित्सासुविधानां सुदृढीकरणाय ३०० कोटिरूप्यकाणां अनुमोदनम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता: – शिमला।
सोमवासरे शिमलायां कैंसर- उपशामक- सेवा- कार्यक्रमस्य राज्यपरामर्शदातृमण्डलस्य प्रथमा सभा अभवत्। सभाया: अध्यक्षता मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: अकरोत्। मुख्यमन्त्री उक्तवान् यत् अस्माकं सर्वकारेण राज्ये कर्करोगपीडितरोगिणां निःशुल्कम् औषधं, सूच्यौषधं च प्रदातुं तेषां समुचितचिकित्सायाः प्रक्रियां पूर्णतया निःशुल्कं कर्तुं च निर्णयः कृतः। राज्ये कर्करोगचिकित्सासुविधानां सुदृढीकरणाय अपि ३०० कोटिरूप्यकाणां अनुमोदनं कृतम् अस्ति। असौ अकथयत् यत् जनकल्याणं सर्वोच्चप्राथमिकता दत्त्वा हिमाचलजनानाम् उत्तमस्वास्थ्यसुविधाः प्रदातुं वयं प्रतिबद्धाः स्मः। अस्मिन्नवसरे स्वास्थ्य मंत्री डॉ. (कर्नल:) धनीरामशांडिल: अन्ये अधिकारिण: च उपस्थिता आसन्।