Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- जयशङ्करः बांग्लादेशप्रकरणे लोकसभायाम् उक्तवान् यत् भारतं स्वनागरिकैः सह निकटतया निरन्तरं च सम्पर्के अस्ति।
- ब्रिटेनसर्वकारः बाङ्ग्लादेशे अशान्तेः विषये संयुक्तराष्ट्रसंघस्य नेतृत्वे अन्वेषणं कर्तुम् आह्वयति, प्रधानमन्त्री शेख हसीना च त्यागपत्रं दत्वा देशात् प्रस्थितवती।
- लोकसभया अस्य वर्षस्य वित्त-विधेयकम् विचारार्थं, अनुमोदनाय च स्वीकृतम्।
- बुल्गारियादेशे वर्तमानकाले संवैधानिकव्यवस्थायाः अनुगुणं सर्वकारस्य निर्माणाय तृतीयः अन्तिमः च प्रयासः अपि असफलः अभवत्। ततः परं नूतनं निर्वाचनम् भविष्यति।
- पेरिस् ओलिम्पिक्स् इति क्रीडायां नीरज् चोपड़ाः पुरुषाणां कुन्तलप्रक्षेपण स्पर्धायाः अन्तिमचक्राय योग्यतां प्राप्नोत्। भारतीय-मल्लयोद्धी विनेश् फ़ोगाट् च उपान्त्य-स्पर्धा प्रति अगच्छत्।
हिमाचलवार्ता:
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अमर-उजाला मेधावी-छात्र-सम्मानम्- २०२४ इत्यस्य समारोहे राज्य- विद्यालय- शिक्षामण्डलस्य दशम- द्वादशवर्गयो: २२२ मेधावीछात्रान् पदकानि प्रशस्तिपत्राणि च दत्त्वा पुरस्कृतवान्।समारोहे मुख्यमन्त्री स्वविवेकनिधितः सर्वेभ्यः मेधावीछात्रेभ्यः २५,००० रुप्यकाणि दातुं घोषितवान्।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः हिमाचलपथपरिवहननिगमस्य सभायाः अध्यक्षतां कुर्वन् अवदत् यत् राज्यसर्वकारः निगमाय आर्थिकहानितः उद्धृत्य निगमं स्वनिर्भरं कर्तुं सर्वसम्भवं सहायतां करिष्यति। ई-बसक्रयणार्थं ३२७ कोटिरूप्यकाणि अनुमोदितानि, द्विसहस्रं टाइप-२ विद्युत्बसक्रयणस्य प्रक्रिया निरन्तरं वर्तते।
- राज्ये उचितमूल्यस्य आपणेषु उपलभ्यमानं सर्षपतैलं महार्घम् अभवत्। खाद्यान्नपरिपत्रधारकेभ्य: सर्षपतैलस्य कृते १३ रुप्यकाणि अधिकं दातव्यानि भविष्यन्ति, येन राज्यस्य १९.५ लक्षं खाद्यान्नपत्रधारकाणां प्रत्यक्षः प्रभावः भविष्यति। परन्तु आगारेषु माष-मसुरयो: सुपयो: च निश्चितरूपेण मूल्यं किञ्चित् न्यूनम् अभवत् इति आश्रयस्य विषयः अस्ति।
- हिमाचलसर्वकार: प्रदेशस्य खाद्य-आगारेषु उपलभ्यमानस्य सर्षपतैलस्य मूल्यं वर्धयति इति कारणेन विपक्षनेता सर्वकारस्य आलोचनां कृतवान्। राज्यस्य जनाः सर्वकारस्य कस्यापि निर्णयात् किमपि आश्रयं न प्राप्नुवन्ति। प्रथमवारं राज्ये एतादृशः सर्वकारः आगतः, यस्य प्रत्येकः निर्णयः सर्वकारस्य कृते आपदा भवति।