CM Sukhu : मुख्यमन्त्री- सेवासंकल्प-सहायतारेखाया: अधिकं सुदृढीकरणेन सह चैट्बोट्-सुविधा अपि प्रदत्ता भविष्यति
हिमसंस्कृतवार्ता: – शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: शिमलायां डिजिटल- प्रविधिशासनविभागद्वारा आयोजिताया: सभाया: अध्यक्षतां कृतवान्। मुख्यमन्त्री अवदत् यत् राज्यसर्वकारेण प्रदत्तानां सर्वेषां सामाजिकसुरक्षासेवानां लाभार्थीनां सुलभपरिवेषणं सुनिश्चित ‘हिम-एक्सेस’ (HIM-Access) इति नामकं ऑनलाइन-पटलं विकसितं क्रियते।
‘हिम-एक्सेस’ (HIM-Access) पटलं राज्यस्य, सर्वकारीयक्षेत्रस्य च अधिकारिणां जनानां सुविधायै विविधविभागीय-अनुप्रयोगानाम् विशेषताः एकस्मिन् मञ्चे आनयिष्यति तथा च एतेषां अनुप्रयोगैः प्रदत्तानां सेवानां लाभः एकस्मिन् क्लिक् मध्ये उपलभ्यते। मुख्यमन्त्री अवदत् यत् मुख्यमन्त्री सेवासंकल्पसहायतारेखायाः अधिकं सुदृढीकरणेन सह शीघ्रमेव चैट्बोट्-सुविधा अपि प्रदत्ता भविष्यति। असौ उक्तवान् यत् डिजिटल-सम्पर्क-माध्यमेन अस्माकं सर्वकारः जनकल्याण-योजना: पारदर्शितया जनानां कृते प्रापयितुं प्रतिबद्धः अस्ति |