Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- बांग्लादेशे प्रचाल्यमान- छात्र- विरोधप्रदर्शनस्य मध्ये बांग्लादेशीय प्रधानमन्त्री शेखहसीना देशस्य प्रधानमन्त्रीपदात् त्यागपत्रं दत्त्वा देशं त्यक्त्वा सुरक्षितस्थानं प्रस्थिता।
- बांग्लादेशस्य सेनाप्रमुखः घोषितवान् यत् देशस्य संचालनाय अन्तरिमसर्वकारस्य निर्माणं भविष्यति।
- राष्ट्रपतिः द्रौपदी मुर्मूः सोमवासरे द्विदिवसीय-आधिकारिकयात्रायाः कृते फिजीदेशं प्राप्ता।
- भारतस्य स्वास्थ्यक्षेत्रे विगतदशवर्षेषु वित्तविनियोगे चतुष्षष्टि-अधिक-एकशतं प्रतिशतं वृद्धिः पञ्जीकृता।
- अमेरिकादेशेन इजरायलविरुद्धं इरान- हिजबुल- सङ्घयोः सम्भाव्यप्रतिकार- कार्याणां विषये जी-सप्त-इत्यस्य विदेशमन्त्रिभ्यः कठोरसचेतना कृता।
- पेरिस-ओलम्पिक-क्रीडायाम्, शटल- बेडमिण्टन इत्यस्य पुरुष एकल-क्रीडायां भारतस्य लक्ष्यसेनः, मलेशियादेशस्य श्री जिया ली-इत्यस्मात् 13-21, 21-16, 21-11 इति अन्तरेण पराजित:।
हिमाचलवार्ता:
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सोमवासरे शिमलातः आभासीयमाध्यमेन अन्ताराष्ट्रीय- मिञ्जरमेला- समापनसमारोहस्य अध्यक्षतां कृतवान्। अस्मिन् अवसरे सः १२०.४४ कोटिरूप्यकाणां विविधविकासपरियोजनानाम् उद्घाटनं, आधारशिला: च अस्थापयत्।मुख्यमन्त्री उक्तवान् यत् चम्बा हिमाचलप्रदेशस्य प्रथमं मण्डलं वर्तते यत् प्रथमं हरितहाइड्रोजन आधारितं गतिशीलतास्थानकं प्राप्नोति।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खु सोमवासरे शिमलायां कैंसर- उपशामक- सेवा- कार्यक्रमस्य राज्यपरामर्शदातृमण्डलस्य सभाया: अध्यक्षताम् अकरोत्। मुख्यमन्त्री उक्तवान् यत् अस्माकं सर्वकारेण राज्ये कर्करोगपीडितरोगिणां निःशुल्कम् औषधं, सूच्यौषधं च प्रदातुं तेषां समुचितचिकित्सायाः प्रक्रियां पूर्णतया निःशुल्कं कर्तुं च निर्णयः कृतः। राज्ये कर्करोगचिकित्सासुविधानां सुदृढीकरणाय अपि ३०० कोटिरूप्यकाणां अनुमोदनं कृतम् अस्ति।
- हिमाचलप्रदेशस्य लाहौल उपत्यकायाः जोबरङ्गग्रामस्य उपरि फाण्डीनालिकायां पर्वतात् रात्रौ आकस्मिकजलप्रलयेन आतङ्कः उत्पन्नः।ग्रामजनाः मशालैः सह वर्षाणां मध्ये स्वगृहात् बहिः सुरक्षितस्थानं प्रति गतवन्तः।
- ऋतुविज्ञानविभागेन अनेकेषु भागेषु पञ्चदिनानि यावत् प्रचण्डवृष्टेः पीत- नारङ्गवर्णीया सचेतना प्रसारिता अस्ति।
- हिमाचले अधुना यावत् प्रचण्डवृष्ट्या जलप्रलयेन च १४४ जनाः मृताः, ६५५ कोटिरूप्यकाणां हानिः