Kangra News : पशुचिकित्साक्षेत्रे अविश्वसनीययोगदानाय पुणेनगरे पुरस्कारं प्राप्तवती पालमपुरस्य पुत्री
हिमसंस्कृतवार्ता: – धर्मशाला।
पालमपुरस्य पुत्री डॉ. श्वेता सूद पशुचिकित्साक्षेत्रे अविश्वसनीययोगदानाय इण्डिया- इन्टरनेशनल- पोल्ट्री- एक्स्पो- २०२४ इत्यस्मिन् “पश्चिमप्रभावशाली महिला पशुचिकित्सकपुरस्कारः २०२४” इति पुरस्कारेण पुरस्कृता। शनिवासरे पुणेनगरे आयोजिते इण्डिया इन्टरनेशनल पोल्ट्री एक्स्पो २०२४ इत्यस्य समापनसमारोहे तस्यै एषः प्रतिष्ठितः पुरस्कारः प्रदत्तः। पशुविज्ञानस्य शोधद्वारा पशूनाम् उत्तमपोषणं, पशुभोजनस्य गुणवत्ता, पशूनां स्वास्थ्यं च सम्बद्धेषु विविधविषयेषु संशोधनार्थं तस्यै एषः पुरस्कारः दत्तः। अवधेयं वर्तते यत् डॉ. श्वेता सूद मुलत: काङ्गड़ामण्डलस्य पालमपुरस्य अस्ति तथा च पालमपुरे प्रारम्भिकशिक्षणानन्तरं पालमपुरकृषिविश्वविद्यालयस्य पशुचिकित्सा- पशुविज्ञानमहाविद्यालयात् २००७ तमे वर्षे स्नातकोत्तरपदवीं प्राप्तवती। भारतीयप्रबन्धनसंस्थान कोलकातातः वरिष्ठप्रबन्धनकार्यक्रमस्य उपाधिं प्राप्तवती। सा राज्यसर्वकारे पशुचिकित्सकरूपेण स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवती अनन्तरं उत्तमवृत्तेः अन्वेषणार्थं निगमक्षेत्रे सम्मिलितवती। सा सम्प्रति पशुस्वास्थ्यसेवायां आस्ट्रेलियादेशस्य प्रमुखस्य कम्पन्याः ज़ेमिरा इत्यस्य निदेशकमण्डले प्रतिष्ठितं पदं धारयति। तस्याः परिवारः पालमपुरे निवसति, सा च पतिपुत्रेण सह पुणेनगरे निवसति। एषः अपि तस्य कार्यक्षेत्रम् अस्ति।