HPCM : विद्युत: निर्धारणात् राज्यं प्रतिवर्षं २०० कोटिरूप्यकाणि अर्जयिष्यति: – मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशः विद्युत्निर्धारणेन, उत्तमलेखाप्रबन्धनेन च प्रतिवर्षं प्रायः २०० कोटिरूप्यकाणाम् अर्जनं करिष्यति। केन्द्रीयविद्युत् नियामक-आयोगेन विद्युत् उत्पादनस्थानकानां बसबारत: मुक्तविद्युत: समयनिर्धारणं लेखाप्रबन्धनं च सुव्यवस्थितं कर्तुं नूतनप्रक्रियायाः अनुमोदनं कृतम्। हिमाचलस्य कृते एषा प्रक्रिया २०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्कात् आरभ्य कार्यान्विता भविष्यति। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् नूतनप्रक्रियायाः कार्यान्वयनानन्तरं राज्यं केन्द्रीयक्षेत्रस्य विद्युत्परियोजनानां आधिकारिकमुक्तविद्युत: भागं प्रत्यक्षतया जनरेशनकेन्द्रात् बार-आधारेण विक्रेतुं अधिकारं प्राप्स्यति, येन सटीकं समयनिर्धारणं सुनिश्चितं भविष्यति तथा शक्तिलेखाकरणं सम्भवं भविष्यति। जनरेटिंगस्थानकतः प्रत्यक्षतया विद्युत्भागस्य विक्रयणं कृत्वा संचरणशुल्कस्य रक्षणं भविष्यति अन्यप्रकारस्य हानिः अपि न्यूनीभवति।
मुख्यमन्त्री उक्तवान् यत् विद्युत् उत्पादनकेन्द्राणां बसबारतः निःशुल्कविद्युत: समयनिर्धारणेन लेखाप्रबन्धनेन च विद्युत् कुशलप्रबन्धनं सुनिश्चितं भविष्यति। विद्युत् परियोजनायाः कार्यानुष्ठानानन्तरं संचरणशुल्कं भुक्तं भवति। हिमाचले अनेका: परियोजना: दशकैः कार्यरताः सन्ति। अस्याः प्रक्रियायाः कार्यान्वयनेन राजस्वस्य रक्षणम् अपि भविष्यति। आयसर्जनस्य साधनानि वर्धयितुं राज्यसर्वकारः निरन्तरप्रयत्नाः कुर्वन् अस्ति इति सः अवदत्। संसाधनानां रक्षणाय, तेषां कुशलप्रबन्धनाय च प्रत्येकस्मिन् स्तरे प्रयत्नाः क्रियन्ते। वित्तीय अनुशासनमपि सुनिश्चितं क्रियते, विभिन्नक्षेत्रेषु प्रक्रियाः सरलाः क्रियन्ते च। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् विद्युत्प्रबन्धनस्य एतस्याः नूतनायाः प्रक्रियायाः कार्यान्वयनेन नाथपा झाकडी तथा रामपुरविद्युत्परियोजनासु मलिनावशेषस्य समस्यायाः समये राज्यस्य विद्युत्कर्तनस्य सम्मुखीकरणं न कर्तव्यं भविष्यति यतः अस्मिन् काले राज्यं स्वस्य समयसूचनायां परिवर्तनं कर्तुं न शक्नोति। अस्याः प्रक्रियायाः कार्यान्वयनार्थं राज्यसर्वकारः निरन्तरं पक्षस्थापनं कुर्वन् आसीत्। सीईआरसी नियमानुसारं राज्यस्य कृते आवंटितः सामान्यजालप्रवेशः ११३० मेगावाट अस्ति। एतस्याः सीमातः परं हिमाचलप्रदेशः अन्ताराज्यजननस्थानकात् विद्युत्निर्धारणं कर्तुं न शक्नोति, येन विद्युत्कर्तनं भवति। अस्याः प्रक्रियायाः कार्यान्वयनेन राज्ये सुचारुविद्युतापूर्ति: सुनिश्चित्य सहायता भविष्यति। हिमाचलप्रदेश ऊर्जा प्रबन्धन केन्द्रं राज्ये हिमाचलप्रदेशराज्यविद्युत्मण्डल लिमिटेड, हिमाचलप्रदेशविद्युत्निगमस्य ऊर्जाविभागस्य च विद्युत्प्रबन्धनार्थं एकव्यापारसंस्थारूपेण कार्यं कुर्वन् अस्ति। एतद् केन्द्रीयविद्युत् नियामक-आयोगेन अन्याभि: च संस्थाभिः सह उत्तमं समन्वयं स्थापयति, यस्य परिणामेण राज्ये विद्युत्प्रबन्धने आयसृजनसम्पदां च निरन्तरं उन्नयनं भवति गतवर्षस्य समानकालस्य तुलनायां हिमाचलप्रदेश ऊर्जाप्रबन्धनकेन्द्रेण २०२४ तमस्य वर्षस्य अप्रैल-मासतः २०२४ तमस्य वर्षस्य जुलाई-मासपर्यन्तं विद्युत्विक्रयात् ३०० कोटिरूप्यकाणि अधिकं अर्जितानि।