HP Cloudburst Search Operation – समेजे चतुर्थदिने अपि प्राचलत् अन्वेषणकार्यक्रमः, अद्यापि ३३ जनाः अदृश्याः सन्ति
हिमसंस्कृतवार्ता: – शिमला ।
हिमाचलप्रदेशस्य रामपुरस्य समेजे मेघविस्फोटस्य घटनायाः अनन्तरं ३३ लुप्तान् जनान् अन्वेष्टुम् अभियानं चतुर्थदिने अपि प्राचलत्। अन्वेषणकार्यक्रमस्य तृतीयदिने अपि लुप्तानां जनानां कोऽपि सूचकः न प्राप्तः। एतादृशे सति अधुना अन्वेषणकार्यक्रमे लाइवडिटेक्टर- उपकरणस्य, स्निफर-शुनकस्य च साहाय्यं गृह्यते। राष्ट्रीय- आपदुद्धारकदलं (एनडीआरएफ), राज्य-आपदुद्धारकदलं (एसडीआरएफ,) पुलिस:, आईटीबीपी, गृहरक्षककर्मचारिणः च प्रायः ८५ किलोमीटरक्षेत्रे अन्वेषणकार्यक्रमे संलग्नाः सन्ति। गृहरक्षाया: समादेशक: आरपी नेपटा इत्यनेन उक्तं यत् गतसायं समीक्षासमागमः अभवत्। यस्मिन् सर्वेभ्यः उद्धारदलेभ्यः भिन्नानि कार्याणि दत्तानि सन्ति। सः अवदत् यत् गतदिवसे नदीं तर्तुं सेतुनिर्माणार्थं किञ्चित् समयः अभवत्, परन्तु अद्य बेलीसेतुः निर्मीयते। अन्वेषणकार्यक्रमस्य चतुर्थे दिने अधिकाधिकशरीराणां पुनः प्राप्तेः सम्भावना वर्तते ।
HP Cloudburst Search Operation : मण्डी जनपदस्य राजबने अन्वेषणकार्यक्रमस्य चतुर्थे दिने एकस्याः महिलायाः बालिकायाः च मृतशरीरे प्राप्ते
हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।
मण्डी-जनपदस्य पधर-उपमण्डलस्य राजबनग्रामे क्रियमाणस्य अन्वेषणकार्यक्रमस्य चतुर्थे दिने राष्ट्रीय-आपदुद्धारकदलं (एनडीआरएफ), राज्य-आपदुद्धारकदलं (एसडीआरएफ,) इत्येते द्वौ अपि मृतशरीरौ अन्वेष्टुं सफलौ अभवताम्। उपायुक्तः मण्डी अपूर्व देवगनः अवदत् यत् राजबने अगस्तमासस्य प्रथमदिनाङ्के घटितायां दुर्घटनायां अधुना यावत् ८ लुप्तानां जनानां मृतशरीराणि प्राप्तानि सन्ति। दुर्घटनासमये १० जनाः अदृश्याः, एकः गम्भीररूपेण घातितः च आसीत्। लुप्तानां १० जनानां मध्ये ८ जनानां शवा: प्राप्ता: सन्ति। रविवासरे मृतद्वयस्य मानवी (३ मासाः) सोनम (२३ वर्षाणि) च इत्येतयो: शवौ प्राप्तौ। उपायुक्तः मण्डी अपूर्वदेवगनः अवदत् यत् अधुना केवलं खुदड्डीदेवी, हरदेवः च अदृश्यौ स्त:। तान् अन्वेष्टुं प्रयत्नाः क्रियन्ते। तेषां अन्वेषणपर्यन्तं अन्वेषणकार्यक्रमः निरन्तरं भविष्यति। एनडीआरएफ इत्यनेन लुप्तानां जनानां अन्वेषणार्थं स्निफर-कुक्कुराः नियोजिताः। गुरुशिलासु लुप्तानां जनानां अवरोधस्य सम्भावनायाः दृष्ट्या आकस्मिकजलप्रलये आगताः बृहत्शिलाः विस्फोटद्वारा भग्नाः क्रियन्ते।
सः अवदत् यत् जिलाराजस्वाधिकारी हरीशशर्मा इत्यस्य उपस्थितौ एनडीआरएफ, एसडीआरएफ, पुलिस, गृहरक्षकाणां सहाय्येन चतुर्थदिनं यावत् अन्वेषणकार्यक्रमः प्रचलति। कार्यवाहक: एसडीएम व तहसीलदार: पधर डॉ भावनावर्मा दुर्घटनादिवसाद् एव तत्र उपस्थिता अस्ति। सा दुर्घटनातः आरभ्य उद्धार-आश्रय-कार्यक्रमयोः निरीक्षणं कुर्वती अस्ति। सः अवदत् यत् प्रभावितपरिवारानाम् सहायता निरन्तरं वर्तते। अद्यत्वे अपि तेषां कृते खाद्यान्नसामग्रय: प्रेषिता: सन्ति।