Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- राष्ट्रपतिः द्रौपदी मुर्मू रविवासरे सायं फिजी, न्यूजीलैण्ड, तिमोर लेस्ते इत्येतेषां त्रयाणां देशानां भ्रमणार्थं प्रस्थिता।
- मध्यप्रदेशस्य सागरमण्डले मन्दिरप्राचीरस्य पतनेन नवबालानां मृत्युः अभवत्। मुख्यमन्त्री मोहनयादवः प्रत्येकं मृतस्य परिवाराय चतुर्लक्षरूप्यकाणाम् अनुग्रहराशिं घोषितवान्।
- हिमाचलप्रदेशे मेघविस्फोटघटनायां लुप्तानां ४४ जनानाम् अन्वेषणं निरन्तरं प्रचलति।
- बाङ्गलादेशस्य राजधान्यां ढाकायां आरक्षणविरोधिनः प्रधानमन्त्रिणः शेखहसीना इत्यस्य वार्ताप्रस्तावम् नाङ्गीकृतवन्तः।आन्दोलनकारिणः पुनः ढाकाया: वीथिषु प्रदर्शनं कुर्वन्ति।
- पेरिस-ओलम्पिकक्रीडायां पुरुष- हॉकी- क्वार्टरफाइनलक्रीडायां भारत- ब्रिटेनयोः मेलने भारतेन ब्रिटेनदलं 4-2 इति अन्तरालेन पराजित्य सेमीफाइनलचक्रे प्रवेश: कृतः।
- रविवासरे बैडमिण्टन- क्रीडायाः पुरुष- एकल- उपान्तक्रीडायां लक्ष्यसेनः सेमीफाइनलचक्रे डेनमार्कदेशस्य विक्टर एक्सेलसेन इत्यस्मात् 22-20, 21- 14 इति अन्तरेण पराजित:।
हिमाचलवार्ता:
- नेताप्रतिपक्ष: जयरामठाकुर: शिमलाया: आपदाप्रभावितस्य समेजक्षेत्रस्य प्रवासं कृतवान्। एतस्मिन् काले सः आपदायां लुप्तानां परिवारजनै:, बन्धुजनै: मिलित्वा शोकं प्रकटयन् सान्त्वनां च दत्तवान्। आश्रय-उद्धार-कार्यक्रमानाम् अवलोकनं कृतवान् ।
- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् हिमाचलप्रदेशः विद्युत्निर्धारणेन, उत्तमलेखाप्रबन्धनेन च प्रतिवर्षं प्रायः २०० कोटिरूप्यकाणाम् अर्जनं करिष्यति। केन्द्रीयविद्युत् नियामक-आयोगेन विद्युत् उत्पादनस्थानकानां बसबारत: मुक्तविद्युत: समयनिर्धारणं लेखाप्रबन्धनं च सुव्यवस्थितं कर्तुं नूतनप्रक्रियायाः अनुमोदनं कृतम्।
- पालमपुरस्य पुत्री डॉ. श्वेता सूद पशुचिकित्साक्षेत्रे अविश्वसनीययोगदानाय इण्डिया- इन्टरनेशनल- पोल्ट्री- एक्स्पो- २०२४ इत्यस्मिन् “पश्चिमप्रभावशाली महिला पशुचिकित्सकपुरस्कारः २०२४” इति पुरस्कारेण पुरस्कृता। शनिवासरे पुणेनगरे आयोजिते इण्डिया इन्टरनेशनल पोल्ट्री एक्स्पो २०२४ इत्यस्य समापनसमारोहे तस्यै एषः प्रतिष्ठितः पुरस्कारः प्रदत्तः।
- शिमलाजनपदस्य रामपुरक्षेत्रस्य समेजे चतुर्थदिने अपि प्राचलत् अन्वेषणकार्यक्रमः, अद्यापि ३३ जनाः अदृश्याः सन्ति। मण्डी जनपदस्य राजबने अन्वेषणकार्यक्रमस्य चतुर्थे दिने एकस्याः महिलायाः बालिकायाः च मृतशरीरे प्राप्ते।