HPCM : चिकित्सामहाविद्यालयेषु विश्वस्तरीयस्वास्थ्यसेवाः उपलब्धा: भविष्यन्ति- मुख्यमन्त्री
हिमसंस्कृतवार्ता: – शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्ख:, डॉ. राजेन्द्रप्रसाद- चिकित्सामहाविद्यालय:, टाण्डा, इन्दिरागांधी- चिकित्सामहाविद्यालय: शिमला च इत्येतयो: समीक्षासभाया: अध्यक्षतां कुर्वन् अकथयत् यत् राज्यसर्वकार: चिकित्सामहाविद्यालयान् समर्थान् कर्तुं साधनानि संसाधनानि च व्यापकस्तरे सर्जयित्वा सुदृढ़ान् करिष्यति। राज्यस्य महाविद्यालयाः सुदृढाः भविष्यन्ति। महाविद्यालयेषु विशेषज्ञवैद्यानां, पर्याप्तकर्मचारिणां च समुचितनियोजनं सुनिश्चितं भविष्यति इति सः अवदत्। मुख्यमन्त्री उक्तवान् यत् भविष्यस्य आवश्यकतानां प्रौद्योगिक्याः च आधारेण स्वास्थ्यसंस्थानां सुदृढीकरणे संसाधननिर्माणे च बलं दत्तमस्ति। चिकित्सामहाविद्यालयेषु स्नातकोत्तरविषयेषु आसनानां संख्यां वर्धयितुं आवश्यकं प्रक्रियां सम्पन्नं कर्तुं अपि सः निर्देशं दत्तवान्। सः सर्वेषु स्वास्थ्यसंस्थानेषु दोषाणां परिचयं कृत्वा तेषां सम्यक् समाधानं सुनिश्चितं कर्तुं अपि निर्दिष्टवान्। गुणात्मकचिकित्सासेवायै षड्-रोगिणां अनुपातेन एका उपचारिका (स्टाफनर्स) नियोजिता भविष्यति इति सः अवदत्।
टाण्डाया: डॉ. राजेन्द्रप्रसाद- चिकित्सा- महाविद्यालयस्य कार्यविधे: समीक्षां कुर्वन् मुख्यमन्त्री अवदत् यत् चिकित्सालये वैद्यैः सह परामर्शस्य प्रतीक्षायाः अवधिः न्यूनीकरिष्यते, परामर्शस्य अवधिः अपि वर्धिता भविष्यति, तदर्थं पर्याप्तसंख्यायां वैद्याः नियुक्ता: भविष्यन्ति। रोगिणां पञ्जीकरणार्थं पञ्जीकरणगणकानां संख्या अपि वर्धिता भविष्यति येन जनानां वैद्येन सह परामर्शाय बहुकालं प्रतीक्षा न कर्तव्या भवेत्। सभायां सूचितं यत् २०२३ तमे वर्षे सर्वेषु विभागेषु कुलम् ६,०५,४८९ रोगिणः चिकित्साविभागे ७२,०६९, आर्थोपेडिक्स-इत्यस्य ५६,१२४, सामान्यशल्यचिकित्सायाम् २५,८५६ रोगिणः टाण्डा चिकित्सामहाविद्यालये चिकित्सासुविधानां लाभं प्राप्तवन्तः।
मुख्यमन्त्री टाण्डा महाविद्यालये विविधपरियोजनानां निर्माणकार्यस्य अपि समीक्षां कृतवान्। सः अवदत् यत् महाविद्यालये शतशय्याक्षमतायुक्तं मानसिकस्वास्थ्यस्य उत्कृष्टताकेन्द्रं विकसितं भवति यत् शीघ्रमेव कार्यात्मकं भविष्यति तथा च बी. एससी नर्सिंग कक्षाः अपि आरभ्यन्ते। मुख्यमन्त्री महाविद्यालये विशेषज्ञवैद्यानां, पैरा मेडिकल इत्यादीनां वर्गानां विविधपदानां पूरणार्थमपि अनुमोदनं दत्तवान्।
शिमला-नगरस्य इन्दिरागान्धी- चिकित्सा- महाविद्यालयस्य समीक्षां कुर्वन् मुख्यमंत्रिणा सुखविन्दरसिंहसुक्खुना तस्मिन् विविध-वर्गस्य पदं निर्माय जनानां कृते विश्वस्तरीय- स्वास्थ्य- सुविधाः सुनिश्चितं कर्तुं निर्देशाः अपि दत्ताः। सः अवदत् यत् स्वास्थ्यसंस्थाभिः सम्बद्धाः सर्वे निर्णयाः बृहत्स्तरस्य जनकल्याणस्य दृष्ट्या ग्रहीतव्याः। महाविद्यालये विविधभवनानां पुनर्स्थापनार्थं अतिरिक्तं बजटप्रावधानं भविष्यति इति सः अवदत्। सभायां कथितं यत् २०२३ तमे वर्षे इन्दिरागान्धी चिकित्सामहाविद्यालयस्य सर्वेषु विभागेषु ८,७२,८२९ रोगिणः, येषु चिकित्साविभागे १,४३,२९१ रोगिणः, आर्थोपेडिक्सविभागे ८५,१६१ रोगिणः, सामान्यशल्यचिकित्साविभागे ७७,०१२ रोगिणः च चिकित्सासुविधानां लाभं गृहीतवन्त:। मुख्यमंत्रिणा उक्तं यत् अटलसुपर- स्पेशलिटी- इन्स्टिट्यूट ऑफ मेडिकल साइंसेज, चम्याना इत्यस्य अपि निरन्तरं सुदृढीकरणं क्रियते।