Himsanskritnews Headlines: विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- भारतवियतनामदेशौ व्यापकं रणनीतिकसहभागित्वम् इतोऽपि सुदृढीकर्तुं द्विपक्षीय वार्ता विहितवन्तौ।
- केरलस्य वायनाडजनपदे दुरापन्ने भूस्खलनप्रकरणे अन्वेषणाभियानं साम्प्रतमपि प्रचलति । मृतकानां संख्या षष्ट्यधिकद्विशतं जाता।
- सर्वोच्चन्यायालयेन अनुसूचितजाति-अनुसूचितजनजातिवर्गयोः अन्तर्गतम् उपश्रेण्याः अनुमतिसम्बद्धे प्रकरणे निर्णयः श्रावितः ।
- भारतेनश्रीलंकादेशस्य कञ्चातीवू द्वीपस्य उत्तरे भारतीय-मत्स्य-मारकाणां नौकया साकं संघट्टनानन्तरम् श्रीलंकायाः राजदूतः समाकारितः।
- पेरिसक्रीडा-महाकुम्भे लक्ष्य-वेधकः स्वप्रिलः कुसाले भारताय तृतीयं कांस्य पदकं विजितवान्।
हिमाचलवार्ता:
- हिमाचलप्रदेशे अद्यतनवृष्ट्या मेघविस्फोटस्य च घटनाभिः बृहत् विनाशः जातः। आनीक्षेत्रस्य निरमण्डे, कुल्लूक्षेत्रस्य मलानायां, मण्डीजनपदस्य थलटूखोडक्षेत्रे, चम्बामण्डले च मेघविस्फोटस्य कारणेन बहूनि गृहाणि, विद्यालयाः, चिकित्सालयाः च क्षतिग्रस्ताः सन्ति विभिन्नस्थानेषु ५० जनाः अदृश्याः सन्ति, चत्वार: शवा: अपि प्राप्ता: अभवन्। मण्डीमण्डले ३५ जनानां सुरक्षितरूपेण उद्धारः कृतः।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः हिमाचलस्य कुल्लू, मण्डी, रामपुरे च त्रासदीविषये अधिकारिभिः सह गोष्ठीं स्वीकृतवान्। सः तत्तत्मण्डलानां उपायुक्तै: सह वार्तालापं कृतवान्। अस्मिन् समये मन्त्री जगतसिंहनेगी अपि उपस्थितः आसीत्। समेज-दुर्घटनायां प्रायः ५० जनाः अदृश्याः, २ जनानां शवौ अपि प्राप्तो इति मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत्।
- विपक्षस्य नेता जयरामठाकुरः राज्यस्य जनान् नद्यः नालिकां च दूरं स्थातुं आह्वानं कृतवान्। विपक्षनेता जयरामठाकुरः अवदत् यत् अस्मिन् वर्षर्तौ हिमाचलप्रदेशे पुनः एकवारं दुःखदकालः आरब्धः, यत् अस्माकं सर्वेषां कृते चिन्ताजनकः विषयः अस्ति। अद्य रात्रौ यावत् हिमाचलप्रदेशे विभिन्नेषु स्थानेषु यस्य प्रकारस्य वर्षा अभवत्, तस्याः प्राणानां, सम्पत्तिनां च महती हानिः अभवत्।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खूः मण्डीजनपदस्य जोगिन्दरनगरे ११० मेगावाटस्य शाननजलविद्युत्परियोजनायाः विषये प्रचलत: वैधानिकसंघर्षस्य सन्दर्भे वरिष्ठाधिकारिभिः सह उच्चस्तरीयं गोष्ठीं कृतवान्। मुख्यमन्त्री अधिकारिभ्यः निर्देशं दत्तवान् यत् ते अस्याः परियोजनायाः विषये राज्यसर्वकारस्य प्रकरणं सर्वोच्चन्यायालये दृढतया प्रस्तुतं कुर्वन्तु, येन राज्यस्य जनानां हितं रक्षितुं शक्यते।