आगामिमासे वायुसेनायाः अभ्यासस्य ‘तरङ्ग शक्ति २०२४’ इत्यस्य आयोजनं भारतं करिष्यति
वार्ताहरः- प्रवीण कुमार:। भारते आगामिमासस्य ६ दिनाङ्कात् तमिलनाडुप्रदेशस्य सुलारे प्रथमबहुराष्ट्रीयवायुसेनाअभ्यासस्य ‘तरङ्गशक्तिः २०२४’इत्यस्य आतिथ्यं करिष्यति। अस्मिन् अभ्यासे प्रायः ३० देशाः भागं गृह्णन्ति। त्रिंशत् देशेषु दश देशाः युद्धविमानैः सह अस्मिन् अभ्यासे भागं गृह्णन्ति । अयं अभ्यासः भारताय स्वस्य रक्षाक्षमतां प्रदर्शयितुं अवसरं प्रदास्यति तथा च सहभागिनां सेनाभ्यः परस्परसमन्वयितानां कार्याणां प्रवर्धनार्थं मञ्चः अपि प्रदास्यति।
वायुसेनायाः उपमुख्यः वायुमार्शल ए.पी. सिंह: अवदत् यत् अभ्यासे आस्ट्रेलिया, बाङ्गला, फ्रान्स, जर्मनी, ग्रीस, स्पेन, यूएई, ब्रिटेन, अमेरिका, सिङ्गापुर इत्यादयः १० देशाः स्वविमानेन सह अभ्यासे भागं गृह्णन्ति, १८ देशाः पर्यवेक्षकरूपेण भागं गृह्णन्ति।
एयरमार्शलसिंहः अवदत् यत् भारतं स्वदेशनिर्मितानि युद्धविमानानि उपकरणानि च प्रदर्शयिष्यति। अस्मिन् अभ्यासे भारतस्य तेजस्, राफेल्, मिराज् २०००, जगुआर, मिग्-२९ विमानाः इत्यादयः बहवः युद्धविमानाः भागं गृह्णन्ति ।