TMC Kangra : डॉ. राजेन्द्रप्रसाद- राजकीय- चिकित्सा- महाविद्यालयाय पुरस्कारं दास्यति केन्द्रीय स्वास्थ्यमन्त्री जेपी नड्डा
प्रत्यारोपणस्य अङ्गदानस्य च क्षेत्रे महत्त्वपूर्णानां उपलब्धीनां कृते भविष्यति सम्मानम्
हिमसंस्कृतवार्ता: – काङ्गड़ा।
डॉ. राजेन्द्रप्रसाद- राजकीयचिकित्सा- महाविद्यालय: टाण्डा उदीयमानं राष्ट्रीयप्रत्यारोपणम्, अंगपुनर्प्राप्ति: केन्द्रपुरस्काराय च सम्पूर्णे भारते सर्वश्रेष्ठपुरस्कारेण सम्मानितो भविष्यति। केन्द्रीयस्वास्थ्य एवं परिवार कल्याणमंत्री, भारतसर्वकार:, जे. पी. नड्डा राष्ट्रीय- अंग- एवं- ऊतक- प्रत्यारोपण सङ्घटनस्य (NOTTO) सौजन्येन १४ तमस्य भारतीय- अङ्गदानदिवसस्योपलक्ष्ये आयोज्ये समारोहे ३ अगस्तदिनाङ्के नवीदिल्लीनगरे पुरस्कारं प्रदास्यति। एवं प्रकारेण सम्पूर्णे भारते सर्वोत्तमः एव तिष्ठन् डॉ. राजेन्द्रप्रसाद- राजकीय- आयुर्विज्ञान- चिकित्सा- महाविद्यालयस्य टाण्डाया: नाम्ना अन्यः अभिलेखः स्थापितः भविष्यति। राष्ट्रीय- अंग एवं ऊतकप्रत्यारोपण सङ्घटनस्य निदेशकस्य डॉ. अनिलकुमारपक्षत: एतदर्थं डॉ. राजेन्द्रप्रसाद- राजकीय- आयुर्विज्ञान- चिकित्सा- महाविद्यालयाय आमन्त्रणं प्राप्तमस्ति। चिकित्सा-महाविद्यालयस्य टाण्डाया: प्राचार्य: डॉ. मिलापशर्मा शनिवासरे नवदेहल्यां भारतस्य केन्द्रीय- स्वास्थ्य- परिवार- कल्याणमन्त्रिणः जे. पी. नड्डाया: हस्ताभ्यां पुरस्कारं प्राप्स्यति। एतद् हिमाचलप्रदेशस्य कृते गौरवस्य क्षणं भविष्यति। एतद् सर्वं डॉ. राजेन्द्रप्रसाद- राजकीय- आयुर्विज्ञान- चिकित्सा- महाविद्यालयस्य टाण्डाया: प्राचार्य डॉ. मिलापशर्मण: उत्तमनिर्देशनेन, नेफ्रोलॉजीविभागस्य विभागाध्यक्षस्य डॉ. अभिनवराणावर्यस्य, वृक्कप्रत्यारोपण- शल्मविशेषज्ञस्य च डॉ. अमितशर्मण: सार्थकै: प्रयासै: सम्भवम् अभवत्।