HPCM : शोङ्गटोङ्ग-कड़छम जलविद्युत् परियोजनाया: द्वितीयचरणस्य अनुमोदनम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता: – शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् केन्द्रसर्वकारस्य पर्यावरणं, वनं, जलवायुपरिवर्तनमन्त्रालयेन वनसंरक्षण- अधिनियम- चरण २ इत्यस्यान्तर्गतं किन्नौरमण्डले शोङ्गटोङ्ग कड़छम- जलविद्युत्परियोजनाया: कृते प्रायः ८५ बीघाभूमौ प्रयोगाय अनुमोदनं कृतम् अस्ति। सः अवदत् यत् अस्याः परियोजनायाः निर्माणार्थम् अतीव महत्त्वपूर्णम् एतद् अनुमोदनं २०१८ वर्षात् केन्द्रसर्वकारे लम्बितम् अस्ति। राज्यसर्वकारस्य निरन्तरप्रयत्नेन एषा महत्त्वपूर्णा सफलता प्राप्ता। सः अवदत् यत् परियोजनायाः समाप्त्यर्थं सेतुनिर्माणार्थं एषा भूमिः आवश्यकी अस्ति।
मुख्यमंत्री उक्तवान् यत् वनसंरक्षण- अधिनियमस्य अन्तर्गतम् एतद् अनुमोदनं दीर्घकालं यावत् केन्द्रसर्वकारेण सह विचार्यमाणाम् आसीत्, परन्तु वर्तमानराज्यसर्वकारेण दृढप्रयत्नाः कृताः, अनुमोदनं दातुं च केन्द्रसर्वकारस्य समक्षं दृढतया स्वस्थानं प्रस्तुतम्। प्रथमचरणस्य अनुमोदनं २०२४ तमस्य वर्षस्य मार्चमासस्य १९ दिनाङ्के केन्द्रसर्वकारेण दत्तम्। तदनन्तरं राज्यसर्वकारेण आवश्यकनियमानां अनुपालनप्रतिवेदनं केन्द्रसर्वकाराय सिद्धान्तानुमोदनार्थं प्रस्तूयते, केन्द्रसर्वकारेण च अन्तिमानुमोदनार्थं अनुरोधः कृतः। सः अवदत् यत् शोङ्गटोङ्ग- कडछम जलविद्युत् परियोजना राज्यस्य विद्युत् उत्पादनक्षमतां वर्धयिष्यति। राज्यस्य अर्थव्यवस्थां सुदृढां कर्तुं महत्त्वपूर्णं योगदानं दास्यति। ४५० मेगावाट शोङ्गटोङ्ग कड़छम जलविद्युत् परियोजनायाः निर्माणकार्यं २०१२ तमे वर्षे पुरस्कृतम्, यत् नवम्बर, २०२६ यावत् सम्पन्नं भवितुम् अर्हति। परियोजनायाः विद्युत् उत्पादनार्थं संचरणरेखा स्थापिता इति सः अवदत्। परियोजनाकार्यं समये सम्पन्नं कर्तुं संचरणनिविदाप्रक्रिया आरब्धा अस्ति, येन राज्यसर्वकारस्य आर्थिकहानिः न भवति। सः अवदत् यत् नवीकरणीय- ऊर्जास्रोतैः सह जलविद्युत: उपयोगः राज्यस्य कृते अत्यन्तमहत्त्वपूर्णोऽस्ति, यतः राज्यस्य अर्थव्यवस्थां वर्धयितुं ऊर्जाक्षेत्रं मुख्यक्षेत्रम् अस्ति। सः अवदत् यत् राज्यसर्वकारेण विभिन्नैः उपक्रमैः राज्ये हरित-उद्योगस्य प्रवर्धनं प्रति विशेषं ध्यानं दत्तम्, येन राज्यस्य अर्थव्यवस्थायां योगदानं दातुं शक्ष्यते।