HP Education Department: शिक्षकाणां स्थानान्तरणे प्रतिबन्धः, ९९ विद्यालयान् तत्क्षणं पिधातुं निर्देशाः।
१० महत्वपूर्णा: निर्णया: कार्यान्विता:
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशसर्वकारेण न्यूनछात्रसंख्यायुक्तानां विद्यालयानां पुनर्सङ्घटनार्थं शिक्षायाः गुणवत्ताया: उन्धयनार्थं च बहवः प्रमुखाः निर्णयाः कृताः। अस्मिन् विषये सर्वकारेण अधिसूचना प्रसारिता। अधुनैव आयोजितायाः मन्त्रिमण्डलसभायाः निर्णयस्य अनन्तरं राज्ये शून्यछात्रसंख्यायुक्ता: ९९ विद्यालया: तत्कालप्रभावेण पिधातुं सर्वकारेण निर्देशाः निर्गता:। एतेषु ८९ प्राथमिकविद्यालयाः १० माध्यमिकविद्यालयाः च सन्ति। तथैव पञ्च वा पञ्चाधिकं वा छात्रबलं विद्यमानानां प्राथमिकविद्यालयानाम् अन्येन प्राथमिकविद्यालयेन (यत्र पञ्चाधिकाः बालकाः सन्ति) द्विकिलोमीटर त्रिज्यायाः अन्तः स्थितेन सह विलीनीकरणस्य निर्देशाः दत्ताः सन्ति। अपि च पञ्च पञ्चभ्यः न्यूनं वा छात्रबलं येषां माध्यमिकविद्यालयानाम् अन्तर्गतं त्रिकिलोमीटर त्रिज्यायां स्थितैः अन्यैः माध्यमिकविद्यालयैः (यत्र पञ्चाधिकाः बालकाः सन्ति) तेषां विलीनीकरणं कर्तुं कथितम् अस्ति। एतेन सह राज्यस्य सर्वेषां शिक्षकानां स्थानान्तरणं वर्षे एकवारं एव, शैक्षणिकसत्रस्य अन्ते भविष्यति। २०२४ तमस्य वर्षस्य जुलाईमासस्य ३१ दिनाङ्कात् परं शैक्षणिकसत्रे कस्यापि शिक्षकस्य स्थानान्तरणं न भविष्यति। शिक्षाविभागे जेबीटी, एचटी इत्येतयो: च परस्परं स्थानान्तरणं (अन्तर- पोस्टिंग) भविष्यति, तथापि प्रत्येकस्मिन् प्राथमिकविद्यालये केवलम् एकः एव: मुख्यशिक्षक: भविष्यति। मुख्यशिक्षक: अध्यापनकार्यमपि करिष्यति।
शिक्षकाणां समायोजनं स्थानान्तरणं च भविष्यति
पिहित-विलय-विद्यालयेषु कार्यं कुर्वन्तः शिक्षकाः शिक्षासचिवस्य अनुमोदनानन्तरं स्वपदैः सह समीपस्थेषु विद्यालयेषु अथवा अन्येषु उच्चतरछात्रशक्तियुक्तेषु विद्यालयेषु स्थानान्तरिताः भविष्यन्ति। एतस्य अनन्तरम् अपि यदि शिक्षकाः उपलभ्यन्ते तर्हि निदेशकस्तरस्य तेषां निकाय: (पूल) निर्मितः भविष्यति, तेषां स्थानान्तरणम् आवश्यकतानुसारं विद्यालयेषु भविष्यति। अनेकविद्यालयेषु बालकानां संख्या न्यूना भवति, शिक्षकानां संख्या अपि समाना वा वर्धमाना वा भवति। एतादृशे सति बालकानां संख्यायाः अनुपातेन शिक्षकाः अपि समायोजिताः भविष्यन्ति। एषा प्रक्रिया सम्प्रति प्रयोज्यसूचनानुसारं प्रशासनिकविभागेन सम्पन्नं भविष्यति।
मुख्याध्यापका:, प्रधानाचार्या: अपि अध्यापनं करिष्यन्ति
प्रशासनिकपदेषु विद्यालयेषु कार्यं कुर्वन्तः मुख्याध्यापकाः प्रधानाचार्य: च स्वस्य प्रशासनिककार्यस्य अतिरिक्तं न्यूनातिन्यूनं एकस्मिन् वर्गे स्वविषयं पाठयिष्यन्ति। एतस्य अतिरिक्तं प्राथमिकविद्यालयानाम् केन्द्रीयप्रमुखाध्यापकाः, मुख्याध्यापकाः च जेबीटी इव शिक्षणकार्यं करिष्यन्ति। अध्यापनसम्बद्धकार्यस्य अपि उल्लेखः तेषां एसीआर-मध्ये भविष्यति।
बालकेभ्य: शारीरिकव्यायामः अनिवार्यः
राज्यस्य सर्वेषु विद्यालयेषु बालकानां कृते प्रातःकाले प्रार्थनासभायां शारीरिकव्यायामः अनिवार्यः भविष्यति, यस्य कृते न्यूनतमः १५ निमेषाः समयः विनियोजितः भविष्यति, केवलं शारीरिकशिक्षकाः एव एतत् दायित्वं निर्वहन्ति। यस्मिन् विद्यालये वा विद्यालयसमूहे वा शारीरिकशिक्षकाः नियुक्ताः सन्ति, ते समूहे समाविष्टानां सर्वेषां वर्गानां बालकानां कृते शारीरिकव्यायामान्/ क्रीडाक्रियाकलापान् च करिष्यन्ति। येषु विद्यालयेषु शारीरिकशिक्षकः नास्ति, तेषु अन्येन केनचित् शिक्षकेन एतत् कार्यं भविष्यति। एतदतिरिक्तं प्रातःकाले प्रार्थनासभायां राष्ट्रगीतम् अपि गायते। प्रार्थनासभा सर्वधर्म समभावं वर्धयित्री भविष्यति। अपि च हे भगवन् भवतः सेवकाः, अस्मान् तादृशी शक्तिं ददातु… (ऐ मालिक तेरे बंदे हम व इतनी शक्ति हमें देना दात्ता…… ) प्रार्थनारूपेण अपि समाविष्टा भविष्यति। प्रत्येकं विद्यालये प्रतिदिनं क्रीडायाः शारीरिकप्रशिक्षणस्य च अवधिः भविष्यति। विद्यालयेषु सीपीआर, प्राथमिकचिकित्साप्रशिक्षणं च दीयते।
स्थिरसम्पत्तयः, संसाधनानि स्थानान्तरिताणि न भविष्यन्ति
सर्वेषां पिहित- समायोजित- विद्यालयानाम् अचलसम्पत्तयः, संसाधनानि च अन्यस्मिन् संस्थायां विभागे वा स्थानान्तरिताणि न भविष्यन्ति। अपि तु उक्तसंसाधनानाम् सम्पत्तीनां च उपयोगः शिक्षाविभागस्य अनुमतिं प्राप्य सम्बन्धित- स्थानीयसंस्थानां सहमत्या सामुदायिकपुस्तकालयानां, व्यायामशालानां, क्रीडाक्रियाकलापानां केन्द्राणां च रूपेण भविष्यति।
आवासीयविद्यालयस्य सम्भावना अन्विष्यते
लाहौलस्पिति-मण्डले १२१ किन्नौरे च २९ एतादृशाः प्राथमिकविद्यालयाः सन्ति येषु बालकानां संख्या पञ्च वा न्यूना: वा सन्ति। एतादृशी परिस्थितौ आवासीयविद्यालयस्य सम्भावना अन्वेषिता भविष्यति। एतद् लाहौल- स्पीति- किन्नौर- मण्डलयो: पायलटरूपेण आरभ्यते। केषुचित् स्थानेषु बालकबालिकानां शिक्षणार्थं शिक्षाविभागः पृथक्-पृथक् विद्यालयान् चालयति। एतेषु विद्यालयेषु बालकानां संख्या अपि न्यूनीभवति। एतादृशी परिस्थितौ यत्र सम्भवति तत्र एते विद्यालया: एकस्मिन् विद्यालये विलीनाः भूत्वा सहशिक्षणविद्यालयरूपेण चालिताः भविष्यन्ति येन बालकानां कृते उत्तमशिक्षा प्रदातुं शक्यते।
मानकसञ्चालनप्रक्रियानुसारं कार्यान्विताः भविष्यन्ति सर्वे निर्णयाः
अपि च उपलब्धानां संसाधनानाम् समुचितरूपेण उपयोगः कर्तुं शक्यते। एतादृशेषु विषयेषु प्रकरणवारनिर्णयः सचिवशिक्षास्तरस्य भविष्यति। शिक्षासचिवः प्रारम्भिमिकशिक्षानिदेशकं एतेषां निर्णयानाम् अनुपालनं सुनिश्चित्य अग्रे आवश्यककार्याणि कर्तुम् आह। एतेन सह एतेषां निर्णयानां कार्यान्वयनार्थं तदनुसारं मानकसञ्चालनप्रक्रियाः सज्जीकृताः इति सुनिश्चितं कर्तुम् अपि कथितम् अस्ति।