Himsanskritnews Headlines: विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
01-08-2024
राष्ट्रीयवार्ता:
- गृहमन्त्री अमितशाहः उक्तवान् यत् वायनाडे भयंकर भूस्खलन-जन्यविनाशात् जनानां रक्षणसहाय्यार्थं केन्द्रसर्वकारः केरलशासनाय सर्वविधसाहाय्यम् उपपादयिष्यति। तत्र मृतकानां संख्या पञ्चषष्ट्युत्तरैकशतं सम्प्राप्ता।
- प्रशासनेन प्रोदितम् यत् बुलेट्-ट्रेन इति अत्याधुनिक-गोलिकागतिकस्य रेलयानस्य परियोजना सजवं प्रवर्धते।
- त्र्यशीत्युत्तरैकोनविंशतितमवर्ष-वर्गस्य प्रशासनिकाधिकारि प्रीतिसूदनवर्या संघलोकसेवायोगस्य अध्यक्षा नियुक्तास्ति।
- हमास इत्यातंकिगुल्मस्य राजनीतिकप्रमुखः ‘इस्माइल हानिया’ ईरानस्य राजधान्यां निहतः।
- पेरिस ओलम्पिकमहाकुम्भे मुष्टामुष्टीक्रीडिका लवलीना-बॉर्गोहाइन् उपान्तचक्रं प्राविशत्। पीवीसिंधु, लक्ष्यसेनः श्रीजा अंकुला च प्रागुपान्तचक्रं प्रविष्टवन्तः, लक्ष्यवेधकः स्वप्निलः कुशाल: पुरुषाणां पञ्चाशन्मीटरमितायां भुशुण्डिका लक्ष्यवेधनस्पर्धायाम् अन्त्यचक्रीय द्वन्द्वाय समर्हो जातः।
हिमाचलवार्ता:
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् केन्द्रसर्वकारस्य पर्यावरणं, वनं, जलवायुपरिवर्तनमन्त्रालयेन वनसंरक्षण- अधिनियम- चरण- २ इत्यस्यान्तर्गतं किन्नौरमण्डले शोङ्गटोङ्ग कड़छम- जलविद्युत्परियोजनाया: कृते प्रायः ८५ बीघाभूमौ प्रयोगाय अनुमोदनं कृतम् अस्ति।
- केन्द्रीय स्वास्थ्यमन्त्री जेपी नड्डा डॉ. राजेन्द्रप्रसाद- राजकीय- चिकित्सा- महाविद्यालयाय पुरस्कारं दास्यति। प्रत्यारोपणस्य अङ्गदानस्य च क्षेत्रे महत्त्वपूर्णानां उपलब्धीनां कृते एतद् सम्मानम् भविष्यति ।
- हिमाचलप्रदेशसर्वकारेण न्यूनछात्रसंख्यायुक्तानां विद्यालयानां पुनर्सङ्घटनार्थं शिक्षायाः गुणवत्ताया: उन्नयनार्थं च बहवः प्रमुखाः निर्णयाः कृताः। अस्मिन् विषये सर्वकारेण अधिसूचना प्रसारिता।एतेषु शिक्षकाणां स्थानान्तरणे प्रतिबन्धः, ९९ विद्यालयान् तत्क्षणं पिधातुं निर्देशाः सन्ति।
- लोकनिर्माणमन्त्री विक्रमादित्यसिंहः अवदत् यत् पथसुविधाभ्यः वंचिताः १००तः २०० यावत् जनसंख्यायुक्ताः ग्रामाः प्रधानमंत्रीग्रामीणसड़कयोजनाया: चतुर्थचरणे मुख्यमार्गैः सह सम्बद्धाः भविष्यन्ति। विक्रमादित्यसिंहः बुधवासरे नूरपुरे पत्रकारसम्मेलनं कृतवान्।