BJP Himachal : हिमाचलाय केन्द्रीय-आयत: १०,३५१.८२ कोटिरूप्यकाणि, रेलबजटतः २५ गुणाधिकम् वर्धितम् – हर्षमल्होत्रा
हिमसंस्कृतवार्ता: – शिमला।
पथपरिवहन- राजमार्गराज्यमन्त्री हर्षमल्होत्रा शनिवासरे शिमलानगरे केन्द्रीय बजटस्य प्रतिक्रियाम् अददत्। अस्मिन् काले सः केन्द्रीयबजटस्य घोषणानां गणनां कृतवान्। बजटे हिमाचलस्य कृते कृतानां घोषणानां विषये अपि सूचना दत्ता।
अस्मिन्नवसरे भाजपाप्रदेशाध्यक्ष: डॉ. राजीवबिन्दल:, नेताप्रतिपक्ष: जयरामठाकुर: चौपालस्य विधायक: बलबीरसिंहवर्मा अपि उपस्थिता: आसन्। हर्ष मल्होत्रा इत्यनेन उक्तं यत्, आधारभूतसंरचनायाः दृष्ट्या राज्यस्य बहुलाभः अभवत्। आधारभूतसंरचनायाः कृते देशे सर्वत्र ११ लक्षं ११ सहस्रकोटिरूप्यकाणां प्रावधानं कृतं, यत् देशस्य सकल- राष्ट्रीय- उत्पादस्य ३.४ प्रतिशतं भवति। हिमाचले अपि अनेकेषु राज्यराजमार्गेषु कार्यं प्रचलति।
एताः सर्वाः परियोजनाः अस्मिन् बजटे महत्प्रवर्धनं प्राप्नुयुः। राजमार्गदृष्ट्या पठनकोट-मण्डी 10,067 कोटि, मटौर-शिमला 10,512 कोटि, कीरतपुर- मण्डी- कुल्लू- मनाली 13,784 कोटि, पिंजौर- बद्दी- नालागढ़ 1,692 कोटि, परवाणू- सोलन- कैथलीघाट- शिमला च ७,६३२ कोटिरूप्यकाणां चतुष्पंक्तिकार्यं प्रचलति। सः अवदत् यत् केन्द्रीय- आयतः हिमाचलप्रदेश: १०,३५१.८२ कोटिरूप्यकाणां राशिं प्राप्स्यति। हर्षमल्होत्रा इत्यनेन उक्तं यत् पठनकोट- मण्डी- चतुष्पंक्ति-इत्यत्र २४७२ कोटिरूप्यकाणां पञ्चकन्दराणाम्, १७४७ कोटिरूप्यकाणां मटौर-शिमलायां तिस्र: कन्दरा:, कीरतपुर- मनाली- चतुष्पंक्ति-इत्यत्र ५६३२ कोटिरूप्यकाणां चतस्र: कन्दरा:, परवाणू-शिमला-चतुष्पंक्तिमार्गे च चतस्र: कन्दरा: च कार्यं कुर्वन्ति। एताः सर्वाः परियोजनाः बजटदृष्ट्या उत्साहं प्राप्नुयुः। निम्मू- पदम- दार्चा- मार्गे १५,८०० पाद- उच्चतायां शिन्कुला-दर्रा इत्यत्र सीमामार्गसङ्गठनेन १६८१ कोटि- रूप्यकाणां व्ययेन ४.१ कि. मी. दीर्घस्य द्वि-नली-कन्दराया: निर्माणं क्रियते इति उक्तवान्। एषा कन्दरा हिमाचलस्य लाहौलं लद्दाखस्य ज़नस्कर-प्रदेशं च संयोजयिष्यति। प्रधानमंत्री-नेतृत्वेन सुरक्षासम्बद्धेन मन्त्रिमण्डलसमित्या २०२३ तमे वर्षे अस्या: कन्दराया: अनुमोदनं कृतम्।
हिमाचलप्रदेशे रेलमार्गविकासाय विमोचितं बजटं पूर्वस्य यूपीए- सर्वकारस्य अपेक्षया २५ गुणाधिकम् अस्ति। अनेन हिमाचले रेलसंरचना सुदृढा भविष्यति। हिमाचले संकीर्णमार्गं विहाय रेलवे शतप्रतिशतम् विद्युत्करणकार्यं सम्पन्नम् अस्ति। विश्वस्तरीयमानकानाम् आधारेण शिमलासहिताः राज्ये चत्वारि स्थानकानि निर्मीयन्ते। तेषु अम्ब- अन्दौरा, बैजनाथ पपरौला, पालमपुरं, शिमला इत्यादयः सन्ति।
सः अवदत् यत् संसाधनविनियोगे सहायतां दातुं राज्येभ्यः दीर्घकालीनव्याजमुक्तऋणरूपेण १.५ लक्षकोटिरूप्यकाणि प्राप्य हिमाचलस्य अपि महत् लाभः भविष्यति। प्रधानमन्त्रिग्रामीण- सड़कयोजनायाः तृतीयचरणस्य हिमाचलस्य २७०० कोटिरूप्यकाणि प्राप्तानि आसन्, अतिरिक्तनिधिः शीघ्रमेव आगमिष्यति। सः आपद: अपि उल्लेखं कृतवान्। आपदानिवारणाय पूर्वं १७८२ कोटिरूप्यकाणाम् आश्रयं दत्तम् इति उक्तवान्। अस्मिन् समये अधिका राशिः दीयते। मनरेगाया: कृते ११०० कोटिरूप्यकाणि ११ सहस्राणि गृहाणि च दत्तानि। केन्द्रसर्वकारः हिमाचलेन सह सर्वदा स्कन्धेन स्कन्धेन तिष्ठति। पथपरिवहन- राजमार्गराज्यमन्त्री हर्षमल्होत्रा शनिवासरे शिमलानगरे केन्द्रीयबजटस्य प्रतिक्रियाम् अददात्।
हिमकेयर-योजनायां निर्णयः जनसामान्येन उपहास:- अनुरागठाकुर:
हिमसंस्कृतवार्ता: – हमीरपुरम्।
पूर्वकेन्द्रमन्त्री हमीरपुरस्य लोकसभासांसदः च अनुरागठाकुरः हिमाचलस्य काङ्ग्रेससर्वकारस्य राज्यस्य निजीचिकित्सालयेषु हिमकेयर- चिकित्सापत्रं न स्वीकरणस्य निर्णयं कृत्वा निराशां प्रकटितवान्, तत् जनहितविरुद्धं काङ्ग्रेसस्य अपरम् अधिनायकत्वस्य निर्णय: इति उक्तवान्। अनुरागठाकुरः अवदत् यत् वर्तमानः काङ्ग्रेससर्वकारः हिमाचलस्य इतिहासे सर्वाधिकं भ्रमितः अप्रभावी च सर्वकारः इति सिद्धः अभवत्। न केवलम् अस्य १९ मासस्य सर्वकारस्य स्वकीयाः उपलब्धयः न सन्ति, तत्सह भाजपायाः सद्कार्यं अवरुद्ध्य काङ्ग्रेसः जनहितेन सह क्रीडति। २०१९ तमे वर्षे भाजपायाः कार्यकाले हिमाचले हिमकेयरयोजना आरब्धा आसीत् यत् राज्यस्य लक्षशः जनानां लाभाय आयुष्मान- भारतयोजनायाः बहिः अवशिष्टानां जनानां कृते नगदरहितं उपचारं प्रदातुं शक्यते स्म सर्वकारीय- चिकित्सालयेषु निदानस्य प्राप्ते न सति निजीचिकित्सालयेषु निदानस्य सुविधा जनेभ्य: प्रदायिनी आसीत्। परञ्च हिमाचलप्रदेशे जनानाम् आश्रयभूता हिमकेयर- योजना कांग्रेससर्वकारेण निजीचिकित्सालयेभ्य: निवृत्तस्य निर्णय: सर्वकारस्य अधिनायकस्य निर्णय: अस्ति। अस्य अर्थः अस्ति यत् हिमकेयरपरिपत्रधारकाः निजीचिकित्सालयेषु चिकित्सां कर्तुं न शक्नुवन्ति। एषः निर्णयः हिमाचलजनानाम् उपरि क्रूरः उपहास: अस्ति यस्य पर्याप्तं निन्दा कर्तुं न शक्यते। अनुरागठाकुरः अवदत् यत् अद्य काङ्ग्रेससर्वकारस्य शासनकाले राज्ये चिकित्सासेवाः अव्यवस्थायाः कालखण्डं गच्छन्ति। सर्वकारीयचिकित्सालयानां स्थितिः दुर्गता अस्ति, यत्र डायलिसिस इत्यादीनां सुविधानां कृते रोगिणः बहु असुविधायाः सम्मुखीकरणं कुर्वन्ति। एतादृशी परिस्थितौ यः रोगी पूर्वं सर्वकारीयव्यवस्थायाः क्लिष्टः भूत्वा निजीं गच्छति स्म, सः अधुना काङ्ग्रेससर्वकारेण अपि तस्य उपरि आक्रमणं कृतम् अस्ति। देवभूमौ ये जनाः केनचित् कारणेन सर्वकारीयचिकित्सालये चिकित्सां प्राप्तुं न शक्तवन्तः, ते निजीचिकित्सालयं गत्वा हिमकेयर- योजनायाः लाभं लभन्ते स्म। अस्य अन्तर्गतं ५ लक्षरूप्यकाणि यावत् नगदरहितं उपचारं क्रियते।