नेपालदेशस्य काठमाण्डौ त्रिभुवन-अन्तर्राष्ट्रीय-विमानस्थानके उड्डयनकाले विमानं दुर्घटितम्, १८ जनानां मृत्युः सञ्जाता।
बुधवासरे प्रातःकाले एव नेपालदेशस्य राजधानीकाठमाण्डौ त्रिभुवन-अन्तर्राष्ट्रीयविमानस्थानके उड्डयनकाले निज-विमानसेवाकम्पनी इत्यस्य विमानं दुर्घटितम्, यत्र १९ जनाः आसन्, तेषु १८ जना: मृताः इति सूचना प्राप्ता अस्ति। मीडिया-सञ्चारमाध्यमानां समाचारानुसारं पोखरा-नगरं गच्छन् विमानं प्रातः ११ वादनस्य समीपे दुर्घटितम्। विमानस्थानके नियुक्तः सुरक्षाधिकारी अवदत् यत् विमानस्य पायलट् चिकित्सालयं नीतः अस्ति। सः अवदत् यत् विमानस्य अग्निः निष्प्रभः अस्ति। दुर्घटनास्थले पुलिसकर्मिणः अग्निशामकाः च उद्धारकार्यं कुर्वन्ति। यात्रिकाणां स्थितिविषये विस्तृतसूचना न प्राप्यते स्म।
मीडिया-सञ्चारमाध्यमानाम् अनुसारं पोखरा-नगरं प्रति गच्छन्तं विमानं उड्डयनकाले धावनमार्गात् अवतरत् तदा एव दुर्घटना अभवत्। विमाने चालकदलस्य सदस्यैः सह १९ जनाः आसन्। प्रारम्भिकसूचनानुसारं दुर्घटनास्थलात् पञ्च शवः प्राप्ताः सन्ति। विमानस्य नायक: (कप्तानः) एम.आर.शाक्यः चिकित्सालयं नीतः अस्ति। विमानस्थानके धूमस्य घनः मेघः दृष्टः अस्ति।
राहत-उद्धारकार्याय सेनाकर्मचारिणः स्थले प्रेषिताः
प्राप्तसूचनानुसारं नेपालसर्वकारेण राहत-उद्धारकार्याय सेनाकर्मचारिणः स्थले प्रेषिताः। चिकित्सा-सेना-कर्मचारिणां दलाः राहतकार्यं कुर्वन्ति, येन प्रकारेण अग्निः प्रज्वलिता, सा दुर्वार्ता सूचयति।
२०२३ तमे वर्षे अपि नेपाले एका प्रमुखा विमानदुर्घटना अभवत् आसीत्
गतवर्षे अपि नेपाले विमानदुर्घटनायां ७२ जनाः मृताः। २०२३ तमे वर्षे नेपाले येतिविमानसेवाया: विमानं दुर्घटनाग्रस्तम् अभवत् आसीत्। येति-विमानसेवा-दुर्घटनायां ये प्राणान् त्यक्तवन्तः, तेषु पञ्च भारतीयाः अपि आसन्। अन्वेषणेन ज्ञातं यत् येति-विमानसेवा-दुर्घटना पायलट्-दोषेण अभवत्, यदा विमानस्य चालकः अकस्मात् विद्युत्-विच्छेदनं कृतवान्, येन विमानस्य दुर्घटना अभवत्।