Manimahesh Yatra : 28 अगस्ततः भविष्यति मणिमेशयात्रा, प्रत्येकं भक्तस्य भविष्यति पंजीकरणम्
‘हेलीटैक्सी’ इति सेवाऽपि उपलब्धा भविष्यति
हिमसंस्कृतवार्ता: – चम्बा।
अस्मिन् समये उत्तरभारतस्य प्रसिद्धायां मणिमहेशयात्रायां प्रत्येकस्य भक्तस्य पञ्जीकरणं भविष्यति। यात्रा अगस्तमासस्य २८ दिनाङ्कात् सेप्टेम्बरमासस्य ११ दिनाङ्कपर्यन्तं भविष्यति। मणिमहेशं गच्छन् कोऽपि www.manimaheshyatra.hp.gov.in इत्यत्र पञ्जीकरणं कर्तुं शक्नोति। एषा सूचना एसडीएम भरमौर: कुलबीरसिंहराणा इत्यनेन यात्रायाः सज्जतायाः विषये बचतभवने आयोजितायां सभायां दत्ता। सभाया: अध्यक्षता विधानसभाध्यक्ष: कुलदीपसिंहपठानिया अकरोत् । अस्यां गोष्ठ्यां मणिमाहेशयात्रायाः समये भक्तानां कृते प्रशासनिकदायित्वस्य, सुविधानां च चर्चा कृता ।
भक्तानां सुविधानां दृष्ट्या विधिव्यवस्था, मार्गस्य पुनर्स्थापनं, परिवहनसुविधाः, यातायात-पार्किङ्ग-प्रबन्धनं, स्वच्छता, पञ्जीकरणं, खाद्य-वास-व्यवस्था, जल-आपूर्तिः, चिकित्सा-सुविधाः, विद्युत्-ऊर्जा-सम्बद्धा: आवश्यका:, दूरसञ्चार-सूचना-व्यवस्था च , सम्भाव्य आपदा उद्धारकार्यक्रमानाम् अतिरिक्तं पर्यटनस्य प्रचारसम्बद्धानां क्रियाकलापानाम् विषये विस्तृतचर्चा अभवत्। पठानिया सर्वेभ्यः विभागीयाधिकारिभ्यः निर्देशं दत्तवान् यत् यात्राकाले भक्तेभ्यः प्रदत्तसुविधाभिः सम्बद्धाः विविधाः कार्यव्यवस्थाः च समये एव सम्पन्नाः भवेयुः। सः अवदत् यत् अस्मिन् समये मणिमहेशयात्रायाः कृते भक्तानां कृते चम्बातः हेली-टैक्सी-सुविधां प्रदातुं सर्वकारः प्रयतते।