IPS : संजीवरंजन: ओझा राज्यस्य सीआइडी इत्यस्य डीजीपी भविष्यति
चत्वारः नवीनाः डीजीपी प्राप्ता:
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशे चत्वारः नवीनाः डीजीपीः प्राप्ताः। इतरथा भारतीयपुलिससेवाया: (आईपीएस) अधिकारी संजीवरंजन: ओझा इत्यस्मै राज्यस्य सीआईडी इत्यस्य प्रभारः दत्तः अस्ति। राज्यसर्वकारस्य मुख्यसचिवेन प्रबोध सक्सेना इत्यनेन अस्मिन् विषये आदेशाः प्रसारिता:। राज्यसर्वकारेण चत्वारः भारतीयपुलिससेवाया: अधिकारिणः डीजीपीरूपेण कृताः सन्ति । एतेषु १९९३ वर्गस्य भारतीयपुलिससेवाया: अधिकारिणः अनुरागगर्ग:, अशोक: तिवारी, ऋत्विक रुद्रा च कार्य-आधारेण पदोन्नतिः प्राप्ता: । एते त्रयः भारतीयपुलिससेवाया: अधिकारिणः केन्द्रीयप्रतिनियुक्तौ सन्ति । यत्र १९९४ वर्गस्य भारतीयपुलिससेवाया: अधिकारी राकेश अग्रवालः नियमितरूपेण पदोन्नतिं प्राप्तवान् अस्ति। चतुर्णां पदोन्नतानां पुलिसाधिकारिणां स्तर १६ वेतनमात्रिकायाः लाभः दत्तः अस्ति।
एतस्य अतिरिक्तं राज्यसर्वकारेण राज्यस्य सीआइडी इत्यस्य डीजीपी इत्यस्य प्रभारः आईपीएस-अधिकारिणे संजीवरंजन: ओझा इत्यस्मै समर्पितः अस्ति। भारतीयपुलिससेवाया: अधिकारी संजीवरंजन: ओझा १९८९ वर्गस्य भारतीयपुलिससेवाया: अधिकारी अस्ति। भारतीयपुलिससेवाया: अधिकारी संजीवरंजन: ओझा कारागार: तथा उन्नयनसेवा-महानिदेशकस्य पदे कार्यरत: अस्ति। अधुना तस्मै राज्यस्य सीआइडी इत्यस्य डीजीपी इत्यस्य अतिरिक्तप्रभारः दत्तः अस्ति। राज्यसर्वकारस्य मुख्यसचिवः प्रबोध सक्सेना इत्यनेन अस्मिन् विषये आदेशाः निस्सारिता:।