HRTC : हिमाचलपथपरिवहननिगमस्य नादौने नूतन: बस-आगार:
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
हिमाचलपथपरिवहननिगमस्य प्रबन्धनेन हमीरपुरजनपदस्य नादौनाय नूतनं बस-आगारं उपहाररूपेण दत्तम् अस्ति । राज्यसर्वकारस्य आदेशेन हिमाचलपथपरिवहननिगमस्य प्रबन्धनिदेशकः रोहनचन्दठाकुरः अधिसूचना प्रसारितवान्। अस्मिन् आगारस्य अन्तर्गतं के मार्गाः प्रचलन्ति इति विषये पृथक्-पृथक् आदेशाः निर्गताः भविष्यन्ति। नादौनम् हिमाचलपथपरिवहननिगमस्य अर्थात् एचआरटीसी इत्यस्य ३०तमः आगारः भविष्यति। हमीरपुरं विहाय नादौनमण्डले एषः द्वितीयः आगारः भविष्यति। अवधेयं वर्तते यत् नादौनं मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: गृहक्षेत्रम् अस्ति । हमीरपुरमण्डले चिरकालात् अतिरिक्त-आगारस्य याचना आसीत् । नादौनं विगतत्रिवर्षेषु उद्घाटितस्य हिमाचलपथपरिवहननिगमस्य सप्तमः आगारः अस्ति । पूर्वं संसारपुर-टेरेस्, नगरोटा, परवानणु, करसोगम्, जोगिन्दरनगरम्, नेरवा इत्यादिषु आगाराः उद्घाटिताः सन्ति । एकस्मिन् आगारे २० तः २५ यावत् अधिकारिणः कर्मचारिण: च नियोजिताः भवन्ति ।