Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
22.07.2024
राष्ट्रीयवार्ता:
- प्रधानमन्त्री नरेन्द्रमोदी रविवासरे सायं सप्तवादने नवदेहल्याः भारतमण्डपे विश्व-धरोहर-समितेः षट् चत्वारिंशत्तमस्य अधिवेशनस्य उद्घाटनं कृतवान् ।
- बांग्लादेशस्य सर्वोच्च -न्यायालयेन सर्वकारीय-उद्योगेषु विवादास्पद-आरक्षणं निरस्तीकृतम्।
- अशेषे हि देशे श्रद्धया हर्षोल्लासेन च आचरित: गुरुपूर्णिमा महोत्सव:। अस्मिन् पावने अवसरे जनाः स्वीय-ज्ञानदीप-प्रज्वालितवतेभ्यः स्वनमनाञ्जलिं कार्तज्यभावं च प्रकटितवन्त:।
- भारतीय-ऋतु-विज्ञानविभागेन अनुमानितं यत् गुजरात-राज्ये पञ्चविंशति-दिनांकपर्यन्तम् अतोऽपि अतिवृष्टिः भविष्यति, अथ उत्तराखण्डे अद्य श्वः च इतोऽपि अतिवृष्टेः सम्भावना वर्तते ।
- महिला-एशिया-विंशति-प्रति-विंशति-क्रिकेट-चषके, श्रीलंकायाः- अन्ताराष्ट्रिय-क्रिकेट-क्रीडांगणे भारतीयदलेन संयुक्त अरब अमीरात दलम्, अष्टसप्ततिः धावनांकैः पराजितम्।
हिमाचलवार्ता:
- शुक्रवासरे आनी विधानसभाक्षेत्रस्य निरमण्ड उपमण्डले १४ जुलैतः प्रचलितायाः श्रीखण्डमहादेव- कैलाशयात्रायाः पञ्जीकरणानन्तरं ५६७ तीर्थयात्रिकाः प्रस्थिताः। एतेषु ५५४ पुरुषाः १३ महिलाः च सन्ति । एसडीएम निरमण्ड मनमोहनसिंहः अवदत् यत् १४ जुलै रविवासरे यात्रायाः आरम्भात् आरभ्य पञ्जीकरणानन्तरं ६०२३ यात्रिकाः श्रीखण्डं प्रति प्रस्थिताः।
- अन्ताराष्ट्रीयमहिलाक्रिकेट्-जगति पदार्पणं कर्त्री हिमाचलप्रदेशस्य चतुर्था क्रीडिका अखिलपक्षीयाप्रतिभा ( All Rounder) तनुजाकंवर अभवत् । रविवासरे दाम्बुलायां आयोजितायां एशियाचषकक्रीडायां तनुजाकंवर यूएईविरुद्धं प्रथमं अन्ताराष्ट्रीयक्रीडां क्रीडितवती।
- आगामिपञ्चदिनानि यावत् रविवासरात् हिमाचलप्रदेशस्य अनेकेषु भागेषु प्रचण्डवृष्टेः सचेतना दत्ता अस्ति। ऋतुविज्ञानविभागेन प्रकाशितसूचनानुसारं केषुचित् स्थानेषु लघुवृष्टिः भविष्यति, केषुचित् स्थानेषु तु प्रचण्डवृष्टिः भवितुम् अर्हति । विभागेन पीत-नारङ्ग-वर्णस्य सचेतना प्रसारिता अस्ति। अधिक-उच्चस्थानेषु अधिका वर्षा भविष्यति इति पूर्वानुमानं कृतम् अस्ति ।
- चण्डीगढ-मनाली राष्ट्रियराजमार्गे हिमाचलपथपरिवहननिगमस्य चलति बसयाने एकस्मात् पर्वतात् महती शिला पतिता। बसयाने गच्छन्तौ यात्रिकौ दुर्घटनायां घातितौ, बसयानं तु क्षतिग्रस्तम्। शनिवासरे रात्रौ सार्धद्वादशवादनस्य समीपे नवमीलस्य समीपे इयं दुर्घटना अभवत्। अस्यां दुर्घटनायां प्राणहानिः नासीत् इति सौभाग्यम् वर्तते।