Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- केन्द्रीयमन्त्रिणा अश्विनी-वैष्णवेन कथितं यत् सर्वकारः माइक्रोसॉफ्ट समवायेन सह संपर्क वर्तते। समस्या दूरीकर्तुं प्रमासाः जायमानाः सन्ति।
- नीट-यूजी प्रवेशपरीक्षायाः प्रश्नपत्रप्रवञ्चनायां केन्द्रीयान्वेषणाभिकरणेन अखिल-भारतीय-आयुर्विज्ञान-संस्थानस्य पटना- इत्यस्य चत्वारः जना: निगडिताः।
- सर्वकारेण आगामिसप्ताहात् प्रारभ्यमाणे संसदः प्रावृट्सत्रे आपदाप्रबन्धविधि संशोधनेन सह षड् नूतनविधेयकाः प्रस्तोष्यन्ते।
- युवप्रकरण- क्रीडामन्त्री- मनसुखमण्डाविया इत्येषः शुक्रवासरे खेलो-इण्डिया-टैलेंट आइडेंटिफिकेशन इत्यभियानस्य द्वितीयचरणस्व उद्घाटनम् अकरोत्।
- महिलानां विंशतिः प्रत्ति विंशतिः एशिया चषक क्रिकेट स्पर्धायां गतविजेता भारतदेशः पाकिस्तानविरुद्धं स्वीयाभियानस्य आरम्भं शुक्रवासरे सायं श्रीलङ्कादेशस्य दाम्बुलानगरे अकरोत्।
हिमाचलवार्ता:
- विधानसभा उपनिर्वाचने निर्वाचितानाम् त्रयाणां सदस्यानां शपथग्रहणं जुलाईमासस्य २२ दिनाङ्के भविष्यति। अस्मिन् विषये विधानसभासचिवालयात् अधिसूचना निर्गता। शपथग्रहणेन सह निर्वाचिताः सर्वे विधायकाः विधानसभासदस्यत्वेन गण्यन्ते।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः केन्द्रसर्वकाराद् आग्रहं कृतवान् यत् हिमाचलसदृशाणां कठिनभौगोलिकपर्वतीयराज्यानां कृते अटलमिशन-फॉर-रिजुवेनेशन- एण्ड- अर्बनट्रांसपोर्ट् (अमृत) इत्यस्य अन्तर्गतं परियोजनानां अनुमोदनस्य मापदण्डेषु शिथिलीकरणं भवेत्।
- प्रथमवारं विधानसभायाः निर्वाचितसदस्यानां कृते प्रशिक्षणकार्यक्रमस्य आयोजनं क्रियते। २३ जुलै दिनाङ्के प्रथमवारं निर्वाचितानाम् २६ विधानसदस्यानां कृते प्रातः ११ वादनतः सायं ५ वादनपर्यन्तं सम्बोधनं प्रशिक्षणकार्यक्रमः च भविष्यति। प्रशिक्षणकार्यक्रमस्य उद्घाटनं विधानसभाध्यक्ष: कुलदीपसिंहपठानिया करिष्यति।
- ऊनायां भाजपाराज्यविस्तारसमित्याः सभायां देशस्य राज्यस्य च राजनैतिकपरिदृश्यस्य विषये प्रस्तावद्वयं पारितम्। प्रथमसंकल्पे नरेन्द्रमोदी तृतीयवारं प्रधानमन्त्री भूत्वा जनकल्याणयोजना: प्रारब्धवान् इति अभिनन्दनम् अकरोत् । द्वितीयसंकल्पे भ्रष्टाचारविषये राज्यस्य काङ्ग्रेससर्वकारस्योपरि लक्ष्यं कृतम्।