Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- गोंडा-गोरखपुरमार्गे मनकापुरस्थानकस्य पार्श्वे चण्डीगढ़-डिब्रूगड-एक्सप्रेस-रेलयानम् रेलपट्टिकातः अधोगतम्। एतस्यां दुर्घटनायां द्वौ जनौ मृत्युमुपगतौ, सहैव विंशतिः जनाः व्रणिताः समभवन्।
- तेलंगानायां राज्यसर्वकारेण कृषकाणां सस्य-ऋणमुक्तये षड्सहस्रकोटितोऽप्यधिकानि रुप्यकाणि निस्सारितानि। प्रथमचरणे एकादशलक्षाधिकाः जनाः लाभान्विताः भविष्यन्ति।
- न्यायमूर्तिः नोंगमेइकापम-कोटिस्वरसिंहः न्यायमूर्ति आर. महादेवनश्च गुरुवासरे सर्वोच्च न्यायालयस्य न्यायाधीशत्वेन शपथग्रहणम् अकुरुताम्। भारतस्य मुख्यन्यायाधीशेन न्यायमूर्तिना डी. वाई. चन्द्रचूड़ इत्यनेन शपथवचनं ग्राहितम्।
- भारतीय ऋतुविज्ञान विभागेन अद्यारभ्य दिनद्वयस्य अधिकवर्षायाः भविष्यवाणी कृताऽस्ति ।
- भारतीय-टेनिस-क्रीडकः सुमित नागलः स्वीडिश-ओपन-प्रतिस्पर्धायां परिभूय बहिर्भूतः।
हिमाचलवार्ता:
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरे सायं नवदेहल्यां केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जे.पी. नड्डा इत्यनेन सह मिलितवान्। समागमे मुख्यमन्त्री राज्ये स्वास्थ्यक्षेत्रे आधारभूतसंरचनानां चिकित्सासुविधानां च उन्नयनार्थं राज्यसर्वकारस्य प्रतिबद्धतायाः विषये जे.पी.नड्डा इत्यस्मै सूचितवान्। मुख्यमंत्री, प्रचुरौषधवाटिकायै अतिरिक्तवित्तीयसहायतां प्रदातुं निवेदितवान्।
- स्वास्थ्य- सामाजिकन्याय- अधिकारितामन्त्री धनीरामशाण्डिलः अवदत् यत् राज्यसर्वकारः महिलाकल्याणार्थं गम्भीरतापूर्वकं कार्यं कुर्वन् अस्ति। सः अवदत् यत् विपक्षस्य नेतु: जयरामठाकुरस्य भारतीयजनतापार्टीति दलं च राज्यस्य जनान् भ्रामयितुं प्रयतन्ते। ‘हिमाचले शगुन योजना न वारिता अस्ति, एतस्य विषये प्रतिपक्षनेतु: जयरामठाकुरस्य आरोप: निराधार: वर्तते।
- शाहपुरविधानसभानिर्वाचनक्षेत्रस्य विधायक: केवलसिंहपठानिया गुरुवासरे उपमुख्यसचेतकपदस्य कार्यभारं स्वीकृतवान् । असौ प्रभारग्रहणं कृत्वा काङ्ग्रेसनेता राहुलगान्धी, प्रियंकागान्धी, मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: इत्येतान् प्रति च कृतज्ञतां प्रकटितवान्।
- श्रीपंचदशनाम जूनाखाड़ा- निरमण्डत: श्रीखण्डमहादेवस्य दर्शनाय 29तमा यष्टियात्रा गुरुवासरे आरब्धा। देशस्य सर्वतोभ्यः संतमुनिभिः सह स्थानीयजनैः सह शतभक्तानाम् एकः समूहः गुरुवासरे श्रीखण्डं प्रति प्रस्थित:। श्री पंचदशनाम जूना- अखाड़ा निरमण्डे समितिद्वारा ऋषि-मुनीनां भव्यं स्वागतं विहितम्। हवनयज्ञस्य पूजायाः च अनन्तरं निर्मण्डनगरं भगवत: महादेवस्य जयजयघोषै: प्रतिध्वनितम्।