Himachal News: ‘हिमाचले शगुन योजना न वारिता, प्रतिपक्षनेतु: जयरामठाकुरस्य आरोप: निराधार:’।
हिमसंस्कृतवार्ता: – शिमला।
स्वास्थ्य- सामाजिकन्याय- अधिकारितामन्त्री धनीरामशाण्डिलः अवदत् यत् राज्यसर्वकारः महिलाकल्याणार्थं गम्भीरतापूर्वकं कार्यं कुर्वन् अस्ति। तृणमूलस्तरस्य सकारात्मकपरिवर्तनानि भवन्ति। सः अवदत् यत् विपक्षस्य नेतु: जयरामठाकुरस्य भारतीयजनतापार्टीति दलं च राज्यस्य जनान् भ्रामयितुं प्रयतन्ते। सः अवदत् यत् अधुनैव जयरामठाकुरः कन्यानां विवाहार्थं राज्यसर्वकारेण चालितायाः शगुनयोजनायाः विषये टिप्पणीं कृतवान् अस्ति तथा च निराधारारोपं कृतवान् यत् अस्याः योजनायाः अन्तर्गतं वर्तमानराज्यसर्वकारः पुत्रीभ्यः विवाहाय शगुनरूपेण दीयमानस्य राशे: वारणं कृतवान् अस्ति।
जयरामठाकुरस्य आरोपाः मिथ्या एव सन्ति।
एते आरोपाः निराधाराः, साक्षात् असत्यं च इति मन्त्री धनीरामशाण्डिलः अवदत्। राज्यसर्वकारेण शगुनयोजनायाः अन्तर्गतं २०२३-२०२४ वित्तवर्षे १८.९५ कोटिरूप्यकाणां बजटप्रावधानं कृतम् आसीत्, यस्मात् १४.४५ कोटिरूप्यकाणां राशिः व्ययिता अस्ति राज्यस्य ४६६२ कन्याः अस्याः राशे: लाभं प्राप्तवत्य:। अस्याः योजनायाः अन्तर्गतं कन्याभ्यः विवाहे सर्वकाराद् शुभदानरूपेण ३१,००० रूप्यकाणि दत्तानि भवन्ति। अस्मिन् वित्तवर्षे शगुनयोजनायाः अन्तर्गतं ३०.४० कोटिरूप्यकाणां बजटप्रावधानं कृतम् अस्ति, यत् गतवर्षस्य अपेक्षया १२ कोटिरूप्यकाणां अधिकम् अस्ति।
‘प्रत्येकं योग्यमहिलायै प्रतिमासं १५०० रूप्यकाणि’
मन्त्री धनीरामशाण्डिलः अवदत् यत् राज्यस्य प्रत्येकं पात्रमहिलायाः कृते प्रतिमासं १५०० रुप्यकाणि अर्थात् प्रतिवर्षं १८,००० रुप्यकाणि प्रदातुं उद्देश्यं कृत्वा इन्दिरागान्धी- प्रियभगिनी-महिला सुख-सम्मननिधियोजना आरब्धा अस्ति। राज्यस्य प्रायः २,८५,००० महिलाः अस्याः योजनायाः लाभं प्राप्तुम् आरब्धाः सन्ति। राज्यसर्वकारः सामाजिकसुरक्षावृत्ते: अन्तर्गतं प्रतिवर्षं प्रायः ८,२४,००० वृद्धानां, विधवानां, एकलमहिलानां च कृते प्रायः १३३० कोटिरूप्यकाणि व्यययति।