CM Sukhu Delhi Tour : केन्द्रीयमन्त्री जेपीनड्डा इत्यनेन सह मिलितवान् मुख्यमंत्री, प्रचुरौषधवाटिकायै अतिरिक्तवित्तीयसहायता याचिता
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरे सायं नवदेहल्यां केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जे.पी. नड्डा इत्यनेन सह मिलितवान्। समागमे मुख्यमन्त्री राज्ये स्वास्थ्यक्षेत्रे आधारभूतसंरचनानां चिकित्सासुविधानां च उन्नयनार्थं राज्यसर्वकारस्य प्रतिबद्धतायाः विषये जे.पी.नड्डा इत्यस्मै सूचितवान्। मुख्यमन्त्री राज्यस्य चिकित्सालयेषु ‘अत्याधुनिक’ चिकित्साप्रौद्योगिक्याः आवश्यकतायाः उपरि बलं दत्तवान् येन राज्यस्य जनानां आधुनिकचिकित्सासुविधानां कृते राज्यात् बहिः गन्तुं न प्रयोजनम् भवेत्। सः निर्माणाधीनानां नाहन-चम्बा-हमीरपुर-चिकित्सा-महाविद्यालयानाम् कार्याणि सम्पन्नं कर्तुं धनस्य आग्रहं कृतवान् ।
सः अवदत् यत् राज्ये छात्राणां कृते गुणवत्तापूर्णं चिकित्साशिक्षा सुनिश्चिता भवति। राज्ये नर्सिंग् प्रशिक्षणं सम्पन्नं कृतवन्तः प्रशिक्षुणां समर्थनं अपि सः आग्रहं कृतवान् येन एतेषां प्रशिक्षुणां विदेशेषु अपि सेवाप्रदानस्य अवसराः प्राप्यन्ते। राज्यस्य अर्थव्यवस्थायां प्रचुरौषधवाटिकाया: (बल्क ड्रग पार्क) महत्त्वपूर्णां भूमिकां दृष्ट्वा स्थानीयजनानाम् कृते जीविकाया: आजीविकाया: च अवसरानां उपलब्धतां दृष्ट्वा मुख्यमंत्रिणा सुखविन्दरसिंहसुक्खुना केन्द्रीयस्वास्थ्यमन्त्रिण: अपि आग्रहः कृत: सः अस्य निर्माणाय अतिरिक्तवित्तीयसहायतां दद्यात्, येन तस्य शीघ्रं निर्माणं सुनिश्चितं भवति। केन्द्रीयमन्त्रिणा एतदर्थं केन्द्रात् सर्वसम्भवसहायतां सुनिश्चतं कर्तुं आश्वासनं दत्तवान् ।