Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- भारत-भूटान्-देशौ जलवायु परिवर्तन-वायुगुणवत्ता-वन- वन्यजीवप्रबन्धन-पर्यावरणक्षेत्राणाम् क्षमता-निर्माणक्षेत्रेषु संयुक्तरूपेण कार्य कर्तुं सहमती अभवताम्।
- सर्वोच्चन्यायालयेनाद्य दिल्ल्याः मुख्यमन्त्रिणे आमआदमी पार्टीतिदलस्य राष्ट्रियसंयोजकाय अरविन्दकेजरीवालाय मद्यनीति प्रवञ्चनायाः धनशोधनप्रकरणे अल्पावधिकमुक्तियाचिका प्रदत्ता ।
- नेपालदेशे, चितवन-इक्षाकामनाजनपदस्य सिमलतालक्षेत्रे त्रिशूलीनद्यां बसयानद्वयस्य प्रवाहेन न्यूनातिन्यूनं षष्टिः यात्रिणः समेत्य सप्तभारतीयाः विलुप्ताः जाताः।
- दिल्लीविश्वविद्यालयेन मनुस्मृतेः एलएलबी-पाठ्यक्रमे समावेशस्य प्रस्तावः निरस्तीकृतः
- केन्द्रीय सशस्र-आरक्षिबलेषु पूर्व-अग्निवीरेभ्यः दश प्रतिशतम् आरक्षणं प्रदास्यते।
- NEET परीक्षापत्रप्रवञ्चनासन्दर्भ सीबीआई इति द्वारा चत्वारो जनाः पटना-बेडरकारागारं प्रति प्रेषिताः।
- शुक्रवासरे भारतीय-स्टाक-आपणानि शिखरस्तरै प्राप्तवन्ति ।
हिमाचलवार्ता:
- हिमाचलप्रदेशमन्त्रिमण्डलस्य गोष्ठी शुक्रवासरे मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: अध्यक्षतायां सम्पन्ना। सभायां बहवः बृहत् निर्णयाः कृताः सन्ति। महत् निर्णयं स्वीकृत्य मन्त्रिमण्डलेन साधनसम्पन्नजनानाम् कृते १२५ मात्रकं निःशुल्कविद्युत्प्रदानस्य निर्णयः निवृत्तः अस्ति। एतदतिरिक्तं गोष्ठ्यां व्याख्याता शारीरिकशिक्षाणां 486 पदानि पूरयितुम्, समर्पित-राज्य-कोषस्य स्थापनायै दियोटसिद्ध-रज्जुमार्गाय चापि अनुमोदनम् कृतम्।
- विपक्षनेता जयरामठाकुरः मुक्तविद्युत्योजनायाः अन्तर्गतं उपदानं स्थगयितुं हिमाचलसर्वकारस्य निर्णयस्य घोरनिन्दां कृतवान्। सः अवदत् यत् काङ्ग्रेसः एतादृशेन एकाधिकारशासनेन प्रसिद्धः अस्ति। राज्यस्य जनाः यत् निःशुल्कं विद्युत् प्राप्नुवन्ति स्म तत् सुक्खुसर्वकारेण अपहृतम्। राज्यस्य जनानां कृते कृतं एतद् अधिनायकतन्त्रं दुर्भाग्यपूर्णम् अस्ति।
- हिमाचलप्रदेशस्य ऊनामण्डलस्य हरोलीक्षेत्रस्य बाथुस्थाने शुक्रवासरे भारतपेट्रोलियमकार्पोरेशनलिमिटेडस्य सीएनजीमातृस्थानकस्य उद्घाटनं कृतम्। अस्मात् मातृस्थानकात् ऊनामण्डलसहितं सम्पूर्णराज्ये प्रतिदिनं ७० सहस्राणि पाइप्ड- प्राकृतिक (PNG)- गैसस्य आपूर्तिः भविष्यति।