नवदेहल्यां केन्द्रीयमन्त्रिणा जगतप्रकाशनड्डावर्येण सह अमिलत् विधायकः अनिलशर्मा
हिमसंस्कृतवार्ता: – मण्डी।
मण्डीविधानसभाविधायकः अनिलशर्मा भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः, केन्द्रीयस्वास्थ्यमन्त्री च जगतप्रकाशनड्डा इत्यनेन सह नवदेहल्यां दिल्लीनिवासस्थाने मिलित्वा केन्द्रीयमन्त्रीत्वे अभिनन्दनं कृतवान्। सदरस्य विधायकः अनिलशर्मा अपि हिमाचलप्रदेशे स्वास्थ्यसेवासम्बद्धे केन्द्रात् अधिकतमसहायतां स्वास्थ्यमन्त्रिणा अनुरोधं कृतवान्।
विशेषतया लालबहादुरशास्त्री- चिकित्सामहाविद्यिलयाय नेरचौकाय तथा क्षेत्रीयचिकित्सालयाय मण्ड्या: कृते विशेषसहायतां अपि आग्रहं कृतवान्, येन हिमाचलजनाः स्वद्वारे उत्तमाः आधुनिकाः च स्वास्थ्यसुविधाः प्राप्नुयुः। स्वास्थ्यमन्त्री जगतप्रकाशनड्डा न केवलं हिमाचले अपितु मण्डीनगरे अपि स्वास्थ्यसुविधानां सुदृढीकरणाय स्वमन्त्रालयद्वारा अस्मिन् दिशि प्रयत्नाः कुर्वन् अस्ति इति आश्वासनं च दत्तवान्। तदतिरिक्तं अनिलशर्मा स्वस्य विधानसभाक्षेत्रे प्रचलति विकासकार्यस्य विषये विस्तरेण चर्चां कृतवान् तथा च केन्द्रप्रायोजितयोजनायाः अन्तर्गतं अन्यविकासकार्यं कृते आर्थिकसहायतां स्वास्थ्यमन्त्रिणः अनुरोधं कृतवान् येन तृणमूलस्तरस्य अपि कार्यान्वितुं शक्यन्ते।
ज्ञातव्यं यत् सदरविधायकः अनिलशर्मा इत्यस्य मण्डीसम्बद्धाः बहवः स्वप्नपरियोजनाः सन्ति, येषां भूमौ आनेतुं सः सर्वदा प्रयतते, परन्तु बजटस्य अभावात् ते अद्यापि आरम्भं कर्तुं न शक्तवन्तः। अस्य अन्तर्गतं सः सम्प्रति दिल्लीनगरे स्थित्वा केन्द्रसर्वकारस्य साहाय्येन एतानि कार्याणि सम्पादयितुं शक्नोति इति केन्द्रीयमन्त्रिभिः सह मिलति। अस्मिन् अवसरे तेन सह आश्रयशर्मा अपि उपस्थितः आसीत् ।