आशुतोषगर्ग:, आईएएस (एचपी-2014) केन्द्रीयमन्त्रिण: जगतप्रकाशनड्डावर्यस्य निजीसचिव: नियुक्त:
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
भारतीयप्रशासनिकसेवाया: हिमाचलसंवर्गस्य वर्ष-२०१४ तमस्य अधिकारी आशुतोषगर्ग: केन्द्रीय स्वास्थ्य- एवं- परिवारकल्याणम् तथा रसायनं उर्वरकमन्त्रिण: जगतप्रकाशनड्डावर्यस्य निजीसचिवरूपेण नियुक्त:। यस्य प्रस्तावः सर्वकारेण अनुमोदितः। एतदर्थं भारतसर्वकारस्य कार्मिक- एवं- प्रशिक्षणविभागस्य उपसचिवस्य पक्षत: अधिसूचना निर्गता अस्ति। अधिसूचनानुसारं एषा नियुक्ति: पञ्चवर्षस्य अवधिपर्यन्तं पदस्य प्रभारग्रहणस्य तिथ्याः आरभ्य अथवा सह-अन्त-आधारेण अथवा यावत् सः मन्त्रिणः निजीसचिवरूपेण कार्यं न करोति तावत् अथवा यावत् अन्ये आदेशा: न निर्गच्छति यत्किमपि घटना पूर्वं भवति तावत् पर्यन्तं भविष्यति।
अधिसूचनायां हिमाचलसर्वकारस्य मुख्यसचिवाय तत्क्षणमेव स्वकर्तव्यात् मुक्तं कर्तुं नूतनं कार्यं च ग्रहीतुं निर्दिष्टम् अस्ति।
अवधेयं वर्तते यत् २०१४ संवर्गस्य आईएएस अधिकारी आशुतोषगर्गः जिला हमीरपुरस्य निवासी अस्ति। गर्गस्य नियुक्तेः आदेशाः केन्द्रीयकार्मिकविभागस्य उपसचिवः पूजा जैनद्वारा निर्गता: सन्ति। गर्गः सम्प्रति हिमाचलसर्वकारे कार्मिकवित्तविशेषसचिवरूपेण कार्यं कुर्वन् अस्ति। अस्मात् पूर्वं सः उपायुक्तः कुल्लू:, लोकसेवा- आयोगस्य सचिवः इति अपि कार्यं कृतवान् आसीत्।
ध्यातव्यं वर्तते यत् २०१४ तमे वर्षे यदा नड्डा केन्द्रीयमन्त्री अभवत् तदा अपि सः एतत् दायित्वं हिमाचलप्रदेशस्य IAS-अधिकारिणः अमनदीपगर्ग-रितेशचौहानयोः हस्ते समर्पितवान् आसीत्। अधुना सः पुनः हिमाचलप्रदेशस्य IAS अधिकारीं प्रति विश्वासं प्रकटितवान् अस्ति। अधुना गर्गः प्रतिनियुक्तिरूपेण गच्छति चेत् राज्ये अधिकारिणां अभावः गभीरः भविष्यति।