HPU Shimla BA Final result: हिमाचलप्रदेशविश्वविद्यालयेन घोषित: स्नातक- अन्तिमवर्षस्य परीक्षा-परिणाम:
हिमसंस्कृतवार्ता: – शिमला ।
हिमाचलप्रदेशविश्वविद्यालयेन सोमवासरे बीए- अन्तिमवर्षस्य परिणामः घोषितः। अस्यां परीक्षायां कुलम् १८५६४ छात्राः उपस्थिताः येषु १५७२४ छात्राः उत्तीर्णाः अभवन्। अस्मिन् समये विश्वविद्यालयस्य उत्तीर्णता प्रतिशतं ९२.८२ प्रतिशतं जातम्। अस्मात् पूर्वं विज्ञानसंकायस्य वाणिज्यसंकायस्य च (Science and B.Com) अन्तिमवर्षस्य छात्राणां परिणामः अपि घोषितः अस्ति। अस्मिन् हमीरपुर- उपाधि- महाविद्यालयस्य धनेटाया: अञ्जलिदेवी प्रथमस्थानं प्राप्तवती।
अस्यां परीक्षायां तया ९.०५ सी.पी.जी.ए. प्राप्तानि। एतेन सह बिलासपुरस्य स्वामीविवेकानन्द- डिग्रीमहाविद्यालयस्य घुमारवीं इत्यस्य रक्षित: 8.99 सीपीजीए प्राप्य द्वितीयस्थाने अस्ति। मण्डी महाविद्यालयस्य कविता ८.९६ सी.पी.जी.ए. प्राप्य तृतीये स्थाने अस्ति। एतदतिरिक्तं एमएलएसएम- महाविद्यालयस्य सुन्दरनगरस्य मनीषाकुमारी ८.८९, बिलासपुर- महाविद्यालयस्य अंकित: ८.८५, संजौलीमहाविद्यालयस्य नरेश: ८.८३, मेहरचन्दमहाविद्यालयस्य कांगड़ाया: कृतिका ८.८३, मण्डी महाविद्यालयस्य पल्लवी ८.८१, मण्ड्या: तिलकराज: अनिलश्च ८.८३ सीपीजीए प्राप्तवन्त:। अनेन सह मण्डी महाविद्यालयस्य अश्वनी ८.७७ सीपीजीए प्राप्त्वा सम्पूर्णे राज्ये १० स्थानं प्राप्तवान्। हिमाचलविश्वविद्यालयस्य परीक्षानियन्त्रकः प्रो श्यामलाल कौशनः अवदत् यत् एषः परिणामः अन्तर्जालपुटे स्थापित: अस्ति। अनेन सह अधुना सर्वेषाम् अन्तिमवर्षसंकायानां परिणामाः घोषिताः सन्ति ।