HP Bye Election : ४०० पारं उद्घोषकर्तृ भाजपायै जनै: वास्तविकं मुखं दर्शितम्, जनता केएलठाकुराय पुनः अवसरं न दास्यति
हिमसंस्कृतवार्ता: – नालागढ़म्।
काङ्ग्रेसस्य राष्ट्रियमहासचिवः सचिनपायलट: अवदत् यत् जनसमूहेन तस्मै दलाय वास्तविकं मुखं दर्शितम् यत् ४०० पारं कर्तुं उद्घोषं करोति स्म। अग्रिम: समयः काङ्ग्रेसपक्षस्य कृते अस्ति। अधुना ध्रुवीकरणस्य राजनीतिं कुर्वतां जनसमूहः स्वीकृतवान् अस्ति। सः विश्वासं अकरोत् यत् हिमाचले विधानसभासनत्रयेषु उपनिर्वाचने काङ्ग्रेस-अभ्यर्थिनः विजयं प्राप्नुवन्ति।
नालागढस्य पंजेहरायां निर्वाचनसभां सम्बोधयन् सः अवदत् यत् अस्मिन् समये लोकसभायां अभिमानेन, एकाधिकवृत्त्या स्वसर्वकारस्य सत्तायाः दुरुपयोगं कृत्वा भाजपायाः कृते जनसमूहेन समुचितं उत्तरं दत्तम्। हिन्दु-मुस्लिमविषये जनान् भ्रमितं यद् दलम् अस्ति तस्य दलस्य अस्मिन् समये पूर्णबहुमतं न प्राप्तम्। विखण्डित लोकसभा निर्मिता अस्ति। अग्रिम: समयः काङ्ग्रेसस्य एव इति जनसामान्यं भाजपाय दर्शितवती अस्ति।
सः अवदत् यत् नालागढस्य जनाः के.एल.ठाकुरं विधायकरूपेण प्रेषितवन्तः परन्तु सः जनस्य कार्यं सम्पादयितुं असफलः अभवत्, जनसमूहः तस्मै पुनः पुनः अवसरं न दास्यति। अस्मिन्नवसरे उपमुख्यमंत्री मुकेश: अग्निहोत्री, प्रदेशाध्यक्षा प्रतिभासिंह, स्वास्थ्यमंत्री धनीरामशांडिल:, पूर्वमंत्री रामलालठाकुर:, उद्योगमंत्री हर्षवर्धनचौहान:, गंगुराममुसाफिर:, ठाकुरकौलसिंह:, जिलाध्यक्ष: शिवकुमार:, आदय: अपि सम्बोधितवन्त: तथा च काङ्ग्रेसं प्रति जनसमुदायस्य समर्थनं याचितवन्त:।