Income Tax Department : उपनिर्वाचने आयकरविभागस्य अन्वेषणकारणात् नादौने उत्तेजना
हिमसंस्कृतवार्ता: – हमीरपुरम्।
आयकरविभागस्य दलैः गुरुवासरे प्रातःकाले मुख्यमन्त्रिण: गृहक्षेत्रे नादौननगरे गुप्तान्वेषणं कृतम्। आश्चर्यं यत् मुख्यमन्त्री यदा नादौने आसीत् तदा एतद् अन्वेषणं कृतम्। येषां व्यापारिणां गृहेषु व्यापारपरिसरेषु च अन्वेषणम् अभवत् ते त्रयः काङ्ग्रेसविचारधारिणः इति कथ्यन्ते। एतादृशी परिस्थितौ नगरे चर्चायाः विपणी उष्णा आसीत् यत् अस्मिन् उपनिर्वाचनसमये सर्वकारीयसंस्थानां ज्ञात्वैव दुरुपयोगेन एतादृशाः अन्वेषण-प्रकरणाः क्रियन्ते, येन राज्ये भयस्य वातावरणं निर्मीयते। उल्लेखनीयं यत् केवलं कतिपयदिनानि पूर्वम् आयकरविभागस्य दलैः हमीरपुरमण्डले सप्तजनानां गृहेषु व्यापारपरिसरेषु च अन्वेषणम् कृतमासीत्।
सप्ताहे द्वितीयवारं घटितया कार्यविधिना नादौननगरे यदा उत्तेजना जनिता तदा केचन जनाः एतत् राजनैतिकप्रेरितम् अपि वदन्ति। गुरुवासरे प्रातःकाले नादौननगरस्य त्रिषुस्थानेषु एकत्रितरूपेण आयकरविभागेन कृतमन्वेषणं व्यापारिषु आतङ्कं जनयन्ति। भरमोटी, मानपुल (पोस्ट) इत्यत्र केन्द्रीयसुरक्षाबलं नियोजितं दृष्ट्वा जनाः आश्चर्यचकिताः अभवन् । एतस्मिन् समये यदा चर्चायाः विपणी तापिता तदा आयकरविभागेन त्रिषु व्यावसायीषु आक्रमणं कृतम् इति प्रकाशितम्। गुरुवासरे नादौननगरे आयकरविभागस्य अन्वेषणस्य चर्चा आसीत्। न तु पूर्वं कस्यापि अन्वेषणसंस्थायाः हिमाचलस्य आक्रमणं न कृतम्, परन्तु अस्मिन् समये विशेषतः उपनिर्वाचनर्तौ मुख्यमन्त्रिणः गृहमण्डलं लक्ष्यं कृत्वा अन्यत् किमपि सूचयति। यदि अस्य पृष्ठे किमपि राजनैतिककारणानि सन्ति तर्हि राज्यस्य चिन्ताजनकः विषयः अस्ति।
राजनैतिकप्रेरितम् वर्तते अन्वेषणम्
गुरुवासरे हमीरपुरं प्राप्त: काङ्ग्रेसस्य राष्ट्रियप्रवक्ता पवनखेडा तत् प्रत्यक्षराजनैतिकप्रेरितम् इति उक्त्वा केन्द्रसर्वकारः अन्वेषणसंस्थानां निरन्तरं दुरुपयोगं कुर्वन् अस्ति इति अवदत्।
कार्यविधे: सूचना न अस्ति
हमीरपुरं प्राप्तः भाजपा-वरिष्ठनेता पूर्वमुख्यमन्त्री च जयरामठाकुरः अन्वेषणस्य एतस्याः कार्यविधिविषये अज्ञानं प्रकटयन् सम्प्रति तस्य विषये कोऽपि सूचना नास्ति इति अवदत्।