Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमन्त्री नरेन्द्रमोदी अस्मिन् मासे ०८, ०९ दिनाङ्कयो: रूसदेशस्य आधिकारिकयात्रायां भविष्यति। विदेशमन्त्रालयेन उक्तं यत् मोदीमहोदयः रूसराष्ट्रपते: व्लादिमीर पुतिनस्य आमन्त्रणेन २२ तमे भारत-रूस-वार्षिक-शिखरसम्मेलने भागं ग्रहीतुं मास्कोनगरं गमिष्यति।
- प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् आतङ्कवादः कस्मिन्नपि रूपे उत्त आतंकवादस्य कथमपि प्रकटीकरणं न्याय्यं समुचितं वा अस्ति इति अनुमोदनं कर्तुं न शक्यते।
- प्रधानमन्त्री श्रीनरेन्द्रमोदी नवीदिल्लीनगरे स्वनिवासस्थाने विंशतिम् प्रतिविंशति-विश्व- चषक-विजेत्रा भारतीय-पुरुष-क्रिकेट्दलेन सह मिलितवान्।
- झारखण्ड-मुक्ति-मोर्चायाः कार्यकारि-अध्यक्षः हेमन्तसोरेनः अद्य झारखण्डस्य मुख्यमन्त्रित्वेन शपथं स्वीकृतवान् ।
- असम-अरुणाचलप्रदेशयोः तोय-प्लव-स्थितिः गभीरायते। सैन्यबलेन आपदुद्धार-अभियानं सजवं चाल्यते ।
- विम्बल्डन्-टेनिस्-स्पर्धायां भारतस्य चूकी-भांबरी फ्रान्स-वेशीयेन अल्बानो-ओलीवेटी इत्यनेन सह सम्भूय स्पर्धिष्यते ।
हिमाचलवार्ता:
- गुरुवासरे हिमाचलप्रदेशस्य राजधान्यां भट्टाकुफरफलविपण्यां सेबफलानि सार्वत्रिकपेटिकासु आगतानि। फलविपण्यां पीआरजे ट्रेडर्स् संख्या-५३ फार्म इत्यत्र कोटगढस्य बरगांवक्षेत्रात् समरक्वीन्-सेबस्य चतस्र: पेटिका: आगताः। एका पेटिका ६०० रूप्यकेन विक्रीता।
- चण्डीगढमनालीराष्ट्रियराजमार्गे मण्डी-पण्डोहयोः मध्ये चतुर्मीलस्थाने मार्गभीत्ति: स्खलिता आसीत् । तस्मिन् एव काले गुरुवासरे इयं भीत्ति: पूर्णतया पतिता। भूस्खलनेन चण्डीगढमनालीराष्ट्रियराजमार्गस्य अवरोधस्य संकट: अपि दृश्यते। परन्तु अधुना अत्र एकदिशि यातायातस्य पुनः स्थापना कृता अस्ति ।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः गुरुवासरे देहरा विधानसभाक्षेत्रस्य बहुषु स्थानेषु पथसभां कृतवान्। सः काङ्ग्रेसपक्षस्य प्रत्याशी, तस्य पत्नी कमलेशठाकुराया: च कृते देहरायां प्रबलतया प्रचारं कृतवान् । मुख्यमंत्री सुक्खुः अवदत् यत् इदानीं देहरा-क्षेत्रस्य समस्यानां समाधानं मम दायित्वम् अस्ति, यतः देहरा इदानीं मुख्यमन्त्रिण: निर्वाचनक्षेत्रं जातम्।
- देहरातः भाजपाप्रत्याशी होशियारसिंहः उक्तवान् यत् सुक्खुसर्वकारस्य १० प्रतिज्ञा: पूरयितुं कोऽपि गारण्टी नास्ति तथा च सुक्खूसर्वकारः केवलं १५ मासेषु सहस्रकोटिऋणं गृहीत्वा सत्तासुखं भोक्तुं व्यग्र: अस्ति। जनसमूहः समस्याभिः सह संघर्षं कुर्वन् अस्ति। सः अवदत् यत् आपदासमये केन्द्रसर्वकारेण सुक्खूसर्वकाराय कोटिरूप्यकाणां धनं प्रदातुं राज्यस्य जनानां कृते आर्थिकसाहाय्यं कृतम् आसीत्, परन्तु सुक्खुसर्वकाराय धन्यवादं दातुं स्थाने केन्द्रसर्वकारस्य आलोचना कृता।