Gaiety Theatre Handloom Exhibition: गेयटीप्रेक्षागृहे हस्तकरघाप्रदर्शनी आरब्धा, मेषस्य ऊर्णस्य राङ्कवम् आकर्षणं जातम्
हिमसंस्कृतवार्ता: – शिमला।
मंगलवासरे गेयटी-प्रेक्षागृहस्य टेवर्न हॉल इत्यत्र हस्तकरघाप्रदर्शनी आरब्धा। अस्मिन् कुल्लुनगरस्य दशाधिकाः शिल्पिभिः हस्तनिर्मित- ऊर्ण- उत्पादानाम् स्तम्भाः स्थापिताः सन्ति। एतेषु पश्मिना, शश- मेष- ऊर्ण- राङ्कवम्, पारम्परिकं कुल्लूराङ्कवम्, प्रावारकं, बाहुवस्त्रं, शिरस्त्राणं, पादकोषा: च सन्ति। एतेषु स्तम्भेषु प्रथमदिने एव जनानां समूहाः क्रयणं कर्तुं समागताः आसन्। प्रदर्शनी जुलाईमासस्य १२ दिनाङ्कपर्यन्तं भविष्यति। इयं प्रदर्शनी द त्रिपुरा हस्तकरघा एण्ड हैण्डक्राफ्ट वीवर्स कोआपरेटिव सोसाइटी लिमिटेड, नग्गर जिला कुल्लूद्वारा आयोजिता। कर्मकर: राजकुमारः अवदत् यत् सः प्रदर्शन्यां मेष- ऊर्णानां राङ्कवानां प्रदर्शनमपि कृतवान् अस्ति। अयं राङ्कवम् मेषस्य ऊर्णात् निर्मितम् इति कारणतः अतीव मृदुः अस्ति। राङ्कवस्य परितः हस्तेन चम्बाया: कृतय: सन्ति। अस्य मूल्यं ४,०००तः १०,००० यावत् भवति। पश्मिनाशालस्य मूल्यं ५,००० तः २०,००० यावत् भवति । अयं राङ्कवम् मृदुः अतीव लघुः च अस्ति। शश-ऊर्णानां राङ्कवानां मूल्यं द्विसहस्ररूप्यकाणां मूल्यात् आरभ्यते। एतदतिरिक्तं सः कुल्लुनगरस्य पारम्परिकं पट्टिकायुक्तं राङ्कवम् अपि विक्रयणार्थं स्थापितवान्। अस्य राङ्कवस्य मूल्यं ५,००० तः १५,००० यावत् भवति। एते सर्वे उत्पादाः हस्तेन निर्मिताः इति कथितम्। गलबन्धस्य (मफलरस्य) मूल्यं ३०० रुप्यकात् ४००० रुप्यकपर्यन्तं भवति। एतदतिरिक्तं चम्बाराङ्कवानि, किन्नौरी, नूरपुर, लद्दाखी च राङ्कवानि अपि प्रदर्शन्यां प्रदर्शितानि सन्ति।