Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- संसदः उभयोः सदनयोः राष्ट्रपतेः द्रौपदीमुर्मूवर्यायाः अभिभाषणानन्तरं धन्यवादप्रस्तावे चर्चा सञ्जाता।
- प्रधानमन्त्री नरेन्द्रमोदी डिजिटल इण्डिया इत्यभिनामधेयकस्य आङ्ङ्ककीय-भारतोपक्रमस्य सफलतायाः नववर्षाणां सम्पूर्त्यवसरे प्रसन्नताम् अभिव्यक्तवान्।
- गृहमन्त्री अमितशाहः अवोचत् यत् नूतनापराधिकविधयः त्वरितन्यायेन सह पीडितानाम् अधिकारान् सुनिश्चयिष्यन्ति।
- राष्ट्रियपरीक्षाभिकरणेन एनटीए इत्यनेन अद्य नीट-यूजी इति पुनः परीक्षायाः अनन्तरम् त्रिषष्ट्यधिकपञ्वशतोत्तरैकसहस्रं परीक्षार्थिनां संशोधित-परिणामः समुद्धोषितः।
- भारतीयमहिला क्रिकेटदलेन अद्यापराह्णे चेन्नैनगरे एकस्याः अपि क्रीडिकायाः हानि विनैव दक्षिण- अफ्रीकादलं विस्तरेण पराजितम्।
हिमाचलवार्ता:
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् पूर्वनिर्दलीयविधायकस्य के. एल. ठाकुरस्य अन्धकारमयकार्याणां कारणेन नालागढस्य नाम इतिहासस्य पृष्ठेषु लिखितं भविष्यति। इतिहासे एषा प्रथमा घटना यत् कश्चन स्वतन्त्रः विधायकः त्यागपत्रं दत्त्वा पुनः तस्यैव विधायकस्य निर्वाचनं प्रतिस्पर्धयति। के. एल. ठाकुर: एकः व्यवसायी अस्ति, १४ मासान् यावत् सर्वं कार्यं कारयित्वा अपि सः काङ्ग्रेससर्वकारस्य पृष्ठभागे छुरिकापातं कृतवान् अस्ति।
- विपक्षस्य नेता जयरामठाकुरः अवदत् यत् सुक्खुसर्वकारः हिमाचलप्रदेशस्य जनानां कृते निःशुल्कविद्युत्प्रदानं स्थगयितुं सज्जः अस्ति। पूर्वं अपि बहवः प्रयासाः कृताः ये सफलाः न अभवन् किन्तु अधुना आयकरस्य परिधिमध्ये आगच्छन्तः जनानां कृते एतां सुविधां निष्कासयितुं सर्वकारः सज्जः अस्ति। अतीव शीघ्रमेव एषः विषयः मन्त्रिमण्डलसभायाम् अपि आगमिष्यति।
- देशे जुलाईमासस्य प्रथमदिनात् आरभ्य त्रीणि नूतनानि आपराधिकविधानानि प्रवर्तन्ते। पुरातनविधानानां स्थाने अधुना भारतीयन्यायसंहिता, भारतीयनागरिकरक्षासंहिता, भारतीयसाक्ष्याधिनियमः च स्थापिताः सन्ति।हिमाचलप्रदेशे अपि एतेषां नियमानाम् अन्तर्गतम् आपराधिकप्रक्रिया आरब्धा अस्ति।
- अस्मिन् सन्दर्भे गतरात्रौ १:५८ वादने भारतीयन्यायसंहितायां नवीनप्रावधानानाम् अन्तर्गतं राज्ये प्रथमं प्रकरणं मण्डीमण्डलस्य धनोटूपुलिसस्थानके धारा १२६ (२), ११५ (२), २. ३५२ तथा ३५१ (२) पञ्जीकृतम्।
- देहराविधानसभाया: उपनिर्वाचनस्य भाजपाया: सहसंयोजकः काङ्गड़ाविधानसभानिर्वाचनक्षेत्रस्य विधायकः पवन काजलः मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: हिटलरेण सह तुलनां कृत्वा सुक्खुसर्वकारस्य शासनं हिटलरस्य समये यथा आसीत् तथा एव अस्ति इति अवदत्। सोमवासरे प्रेसविज्ञप्तौ पवनकाजलः अवदत् यत् नवविधानसभाक्षेत्रेषु आयोजिते प्रथमे उपनिर्वाचने सुक्खुसर्वकारेण जनान् भयभीतान् कर्तुं पुलिसबलस्य उपयोगः कृतः।