Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- आकाशवाण्यां संस्कृतवार्ता-सम्प्रषारणस्य अयं पञ्चाशततमः वर्षः अस्ति, इति मत्वा प्रधानमन्त्रिणा आकाशवाणी-परिवारं प्रति मनोगते (मन की बात इति) कार्यक्रमे शुभाशंशाः सम्प्रेषिताः सन्ति।
- प्रधानमन्त्रिणा संविधानसंहितां प्रति, राष्ट्रस्य लोकतान्त्रिक व्यवस्थां प्रति च जनविश्वासाय जनेभ्यः धन्यवादाः प्रदत्ताः ।
- प्रधानमन्त्रिणा श्रीमोदिना अस्मिन् वर्षे पर्यावरण-दिवसावसरे समारब्धस्य ‘एक पेड़ माँ के नाम’ इति कार्यक्रमस्य विषये उक्तं यत् स्वकीयया मात्रा सह उतो वा मातुः नाम्ना एकः पादपः रोपणीयः इति।
- जनरल-उपेन्द्र-द्विवेदी इत्यनेन नवदेहल्यां सेनाध्यक्षरूपेण कार्यभारं स्वीकृतम्।
- भारतीय-ऋतुविज्ञानविभागेन आगामिषु द्वित्रिषु दिवसेषु उत्तरभारतस्य कतिपय-भागेषु दक्षिण-पश्चिम वर्षर्तोः वरीवर्धनाय परिस्थितयः अनुकूलाः सन्तीति उक्तम्।
हिमाचलवार्ता:
- देहरातः भाजपा प्रत्याशी होशियारसिंहः अवदत् यत् मुख्यमन्त्री तस्य पत्नी च सम्प्रति स्वराजनैतिकमहत्वाकांक्षायाः पूर्तये देहरायां भूमिम् अन्विष्यन्ते। स: अवदत् यत् सा राजनैतिकरोटिकां सेकयितुं देहरानगरम् आगता अस्ति। मुख्यमन्त्रिणः पत्नी अद्यपर्यन्तं देहरानगरं न आगता किन्तु निर्वाचनप्रतियोगितायाः समयः अभवत् तदा सा देहरां स्मृतवती।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः देहरा- विधानसभाक्षेत्रे कांग्रेसपार्टीति दलस्य प्रत्याशी तथा स्वधर्मपत्न्या: कमलेशठाकुराया: पक्षे प्रचारं कृतवान्। मुख्यमन्त्री उक्तवान् यत् पूर्वविधायकः होशियारसिंहः देहराक्षेत्रस्य जनान् वदेत् यत् सः विधायकपदात् किमर्थं त्यागपत्रं दत्तवान्, अधुना पुनः विधायकत्वेन उपनिर्वाचनं प्रतिस्पर्धयति इति। सः अवदत् यत् भाजपानेतृभिः होशियारसिंहेन च एतत् उपनिर्वाचनं जनसमूहे आरोपितम्।
- शिमलानगरम् इव ग्राम्यक्षेत्रेषु सहस्राणि पेयजलग्राहकाः अपि तृतीयदिने जलं प्राप्नुयुः। एतेषु क्षेत्रेषु सप्तमे अष्टमे च दिने सार्धैकमासपर्यन्तं जलं प्राप्यते स्म। अधुना जलशक्तिविभागेन एतेषु क्षेत्रेषु नियमितरूपेण जलस्य आपूर्तिः करणीया इति निर्देशाः कृताः। कसुम्पटीमण्डले कुलम् ४६३ पेयजलयोजना: सन्ति, तेषु सर्वेषु जलस्तरस्य वृद्धेः अनन्तरं जनानां कृते सम्बलं दीयते।
- वर्षर्तुः आरब्धा अस्ति, तस्मात् राज्ये हानिः भवितुं आरब्धा अस्ति। चण्डीगढ- मनाली- राजमार्गे मण्डी-पण्डोहयोः मध्ये ६, ९ माइलपर्यन्तं यावत् गतवर्षर्तौ यत् विनाशं कृतं तत् स्मरणं कृत्वा सर्वेषां आत्मा कम्पते। मण्डी-पण्डोहयोः मध्ये चतुर्णां जनानां प्राणाः गताः आसन्, यत्र एकः लघुः बालकः अपि आसीत्, परन्तु अस्मिन् समये चतुष्मार्गस्य निर्माणे संलग्ना केएमसी-कम्पनी बृहत्तरस्य दुर्घटनायाः, अप्रियघटनायाः च प्रतीक्षां कुर्वती अस्ति। यतोहि केएमसी-कम्पनी न सर्वं मलिनावशेषम् अपसारितवती न च अधुनापि किमपि व्यवस्थां कृतवती