Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- लद्दाखक्षेत्रे एकस्मिन् युद्धाभ्यासोपक्रमे टैंकाख्ये युद्धोपकरणात्मके वाहने संजाते संकटे पञ्चसैनिकाः वीरगतिम् अलभन्, रक्षामन्त्री राजनाथसिंहश्च शोकं प्रकटितवान्।
- प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः ११ वादने अखिलभारतीयरेडियोमध्ये ‘मनोगते’ कार्यक्रमे देशस्य विदेशेषु च जनैः सह स्वविचारं प्रकटयिष्यति।
- वार्षिकी अमरनाथयात्रा उभाभ्यां मार्गाभ्यां पहलगाम-बालटाल इत्येताभ्यां समारब्धा, प्रधामन्त्रिणा च तीर्थयात्रिणः वर्धापिताः, शुभाशंसिताश्च।
- भारतीय-ऋतुविज्ञान-विभागेन प्रोक्तं यत् दक्षिण-पश्चिम-वर्षा सम्प्रति उत्तरभारतस्य कतिपय भागेषु प्रवर्धते।
- भारतीयवायुसेनायां पंजाब-हरियाणा- हिमाचलप्रदेश- चण्डीगढ़- जम्मू-कश्मीर- लद्दाख इत्येतेषाम् अविवाहितानां महिला- पुरुष- अभ्यर्थीनाम् अग्निवीर-नियुक्त्यर्थं ८ जुलाईतः २८ जुलाईपर्यन्तम् ऑनलाइन आवेदनं कर्तुं शक्यते। अम्बालानगरस्य वायुसेना-चयनकेन्द्रस्य कमाण्डिंग- अधिकारी विंग-कमाण्डर एस. वी. जी. रेड्डी अवदत् यत् पञ्जीकरणं ८ जुलाई दिनाङ्के प्रातः ११ वादनतः २८ जुलाई दिनाङ्के रात्रौ ११:०० वादनपर्यन्तं भविष्यति।
- भारतीय क्रीडिके दिया पराण चितले यशस्विनी घोरपाड़े च ट्यूनीशिया देशे विश्व-टेबल टेनिस इति प्रतियोगिायाः अन्तिमचक्रं सम्प्राप्तवत्यौ ।
हिमाचलवार्ता:
- हिमाचलप्रदेशस्य अनेकेषु भागेषु एकसप्ताहं यावत् प्रचण्डवृष्टिः भविष्यति इति सचेतना निर्गता अस्ति। आगामिदिनद्वये राज्यस्य अवशिष्टेषु भागेषु दक्षिणपश्चिम-मानसूनाय अग्रे गन्तुं परिस्थितयः अनुकूलाः सन्ति। ऋतुविज्ञानकेन्द्रशिमलाया: अनुसारं राज्ये ५ जुलाईपर्यन्तं वर्षा भविष्यति। अस्मिन् काले अनेकेषु भागेषु पीत-नारङ्गवर्णीया: प्रचण्डवृष्टेः सचेतना भवति।
- भाजपादलस्य प्रदेशाध्यक्ष: राजीवबिन्दलः शनिवासरे हमीरपुरे पत्रकारसम्मेलनं कुर्वन् राज्यसर्वकारं मुख्यमन्त्रीं च भृशं लक्ष्यं कृतवान्। सः अवदत् यत् मुख्यमन्त्रिण: मीडियापरामर्शकेन मानितं यत् राज्ये स्वमित्राणां सर्वकारः प्रचलति राजनैतिकलाभं प्राप्तुं तेभ्य: मन्त्रिमण्डलपदवीं दीयते, येन काङ्ग्रेसकार्यकर्तारः वञ्चिताः इति अनुभवन्ति।
- मुख्यमंत्री सुखविंदरसिंहसुक्खु: देहराविधानसभाक्षेत्रे देहराबारसंघस्य कार्यक्रमे भागं स्वीकृत्य देहरात: कांग्रेसप्रत्याशिन: कमलेशठाकुर इत्यस्या: पक्षे प्रचारं कृतवान्। सः अवदत् यत् पूर्वं देहरायां ‘देहरा कोऽपि नास्ति भवतः’ इति घोष: उत्थाप्यते स्म किन्तु अधुना ‘देहरा इदानीं अस्माकम्’ इति। सः अवदत् यत् राज्यसर्वकारः देहरा-क्षेत्रस्य विकासे कोऽपि शिलाखण्डः अपरिवर्तितः न त्यक्ष्यति।
- गतवर्षे हिमाचले मानसूनकाले यत् विशालं विनाशं जातम् तस्मात् सर्वकारः प्रशासनं च पाठं ज्ञातवन्तः। अस्मिन् समये शिमला, चम्बा, सिरमौर:, मण्डी तथा कुल्लू इत्यत्र पञ्चस्थानेषु राष्ट्रिय-आपदाप्रतिक्रियाबलस्य नियुक्ति: कृता अस्ति तथा च काङ्गड़ा, मण्डी, शिमला इत्यत्र त्रिषु स्थानेषु राज्यविपदाप्रतिक्रियाबलस्य नियुक्ति: कृता अस्ति। सर्वे विभागा: सतर्कतायां कृता: सति, येन प्राणहानिः सम्पत्तिः च न्यूनीकर्तुं शक्यते, आवश्यकसेवाः अपि प्रभाविताः न भवन्ति।