Taxi Permit Himachal: हिमाचले ३५०० टैक्सीयानानां अनुज्ञापत्राणि अनुमोदितानि
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशराज्यपरिवहनप्राधिकरणस्य बुधवासरे गोष्ठी अभवत्। अस्यां गोष्ठ्यां ३५०० टैक्सी-यानानां अनुज्ञापत्रं दातुं अनुमोदनं दत्तम्। सभायाः अध्यक्षता परिवहनविभागस्य प्रमुखसचिवः आर. डी. नजीम: अकरोत्। हिमाचलप्रदेशे लोकसभा-विधानसभा-निर्वाचनानां कारणात् टैक्सी-यानानां अनुज्ञापत्र-निर्गमनस्य विषयः प्रायः पञ्चमासान् यावत् लम्बितः आसीत्। सभायां ई-टैक्सी योजनायाः विषये अपि चर्चा अभवत्। प्रथमचरणस्य ११४ युनः ई-टैक्सी-यानस्य अनुदानं प्राप्स्यन्ति। हिमाचलसर्वकारः अनुदानं प्रदास्यति। अनुद्योगी- युवभ्य: सुलभशर्तैः ऋणं प्राप्यते। युनः केवलं १० प्रतिशतं धनेन ई-टैक्सी प्राप्तुं शक्नुवन्ति। एतानि टैक्सीयानानि सर्वकारीयविभागेषु नियोजितानि भविष्यन्ति। परिवहनविभागस्य अन्तर्गतम् अस्याः योजनायाः कृते कुलम् ५०० यूनां चयनं कृतम् अस्ति। अनुज्ञापत्राणां निर्गमनात् पूर्वं जनाः वाहनानि क्रीतवन्तः इति उल्लेखनीयम्। जनानां एतानि वाहनानि निरुद्धानि आसन्। बालकान् विद्यालयं प्रति नेतुम् जनाः बसयानानि क्रीतवन्तः आसन्, परन्तु अनुज्ञापत्राणि न निर्गतानि आसन्। टैक्सी-अनुज्ञापत्रं प्राप्य अनुद्योगी युनः स्वरोजगारं कर्तुं शक्नुवन्ति।