Priyanka Gandhi : शिमलां प्राप्ता प्रियंकागांधी, कर्तुं शक्नोति निर्वाचनप्रचार:
हिमसंस्कृतवार्ता: – शिमला।
अखिलभारतीयकाङ्ग्रेससमित्याः महासचिव प्रियङ्कागान्धी बुधवासरे अपराह्णे राजधानी शिमलानगरं प्राप्तवती। प्रियङ्का गान्धी इत्यस्याः निजनिवासः छराबड़ायां शिमला-नगरस्य समीपे अस्ति। प्रियङ्का चण्डीगढतः मार्गेण शिमलानगरं प्राप्तवती। प्रियङ्का गान्धी आगामिदिनद्वयं-त्रयं यावत् शिमलानगरे स्थातुं निश्चिता अस्ति। सम्भवति यत् प्रियङ्का गान्धी हिमाचले देहरा- नालागढ- हमीरपुर- त्रिषु विधानसभाक्षेत्रेषु अपि उपनिर्वाचनस्य प्रचारं कर्तुं शक्नोति। काङ्ग्रेस- शीर्षनेतृत्वेन प्रियङ्कागान्धी इत्यस्याः नाम दलस्य तारक- अभियानकानां सूच्यां प्रथमस्थाने स्थापितं अस्ति। २०२२ तमे वर्षे सम्पन्नस्य विधानसभानिर्वाचनस्य समये, सद्यः एव आयोजिते लोकसभानिर्वाचने च प्रियङ्का गान्धी शिमलानगरस्य स्वगृहात् काङ्ग्रेसपक्षस्य प्रचारस्य प्रभारं स्वीकृतवती आसीत् दलस्य सूत्रेषु उक्तं यत् शिमलानगरे स्वस्य वाससमये प्रियङ्का गान्धी उपनिर्वाचनसम्बद्धानां केषाञ्चन नेतृभ्य: प्रतिक्रियां स्वीकरिष्यति, सर्वकाराय, संघटनस्य च कृते आवश्यकान् निर्देशान् अपि प्रसारयिष्यति।
मौसमविज्ञानकेन्द्रम्- प्रतिहोरां ५० किलोमीटर वेगेन प्रवहति वायुः
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशस्य ऋतुविज्ञानविभागेन २९ जूनतः प्रचण्डवृष्टिः भविष्यति इति सचेतना दत्ता। एषः वर्षाक्रमः सम्पूर्णे राज्ये त्रिदिवसाभ्यधिकं यावत् निरन्तरं भविष्यति। राज्ये २८ जूनतः २ जुलाईपर्यन्तं निरन्तरं वर्षा भविष्यति। अस्मिन् काले वज्रपातस्य पीत-सचेतना अपि निर्गता, जून-मासस्य २८ तः ३० पर्यन्तं प्रचण्डवृष्टेः पीतसचेतना अपि कृता। ऋतुविज्ञानविभागस्य अनुसारम् अस्मिन् काले मानसूनस्य प्रवेशस्य अपि सम्भावना वर्तते। अस्मिन् काले प्रतिहोरान् ४० तः ५० किलोमीटर् वेगेन वायुः प्रवहति। तेन सह विद्युद्गर्जनयोः सम्भावना अपि भवति।