New Criminal Laws : अधुना देशस्य कस्मिन् अपि पुलिस-स्थानके प्राथमिकी (FIR) दातुं शक्यते
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
जुलैमासस्य प्रथमदिनात् आरभ्य देशे सर्वत्र त्रीणि नवीनानि आपराधिकविधानानि कार्यान्वितुं गच्छन्ति। पुरातनविधानानां स्थाने भारतीयन्यायसंहिता, भारतीयनागरिकरक्षासंहिता, भारतीयसाक्ष्याधिनियमः च स्थापिताः भविष्यन्ति। नूतननियमेषु कस्यापि अन्वीक्षणस्य, ग्रहणस्य च सन्दर्भे पुलिसैः विडियोरिकार्डिङ्ग-इति कर्तुम् अनिवार्यं कृतम् अस्ति। अधुना कोऽपि व्यक्तिः पुलिस-स्थानम् न गत्वा ई- एफआईआर-प्रयोगं कर्तुं शक्नोति। पीडितायाः विरुद्धं एफआईआर-प्रदानस्य अधिकारक्षेत्रस्य दायित्वं नूतनेषु विधानेषु निरस्तम् अस्ति। पीडिताः देशस्य कस्मिन् अपि पुलिसस्थानके प्राथमिकीम् अङ्कयितुं शक्नुवन्ति। पुलिसकर्मचारिणः एतत् प्रतिकारं कर्तुं न शक्ष्यन्ति। बुधवासरे उपायुक्तकार्यालयस्य बचतभवने गृहमन्त्रालयेन सूचनाप्रसारणमन्त्रालयेन च कार्यशाला आयोजिता। मुख्यातिथिरूपेण आईपीएस-अधिकारी अतिरिक्तपुलिस महानिदेशक: अभिषेक: त्रिवेदी आसीत्। कार्यक्रमे संसाधनव्यक्तिरूपेण आईपीएस अधिकारी समादेशक: एचपीएपी- वाहिनी जुंगा रोहित मालपानी, राष्ट्रीयविधिविश्वविद्यालयस्य आचार्य: डॉ. गिरीशशुक्ल: एवं सहाचार्य: डॉ. संतोषकुमारशर्मा च उपस्थिता: अभवन्।
साक्षिणः, पीडिताः, अभियुक्ताः च आभासीयमाध्यमेन उपस्थिताः भवितुम् अर्हन्ति
नूतनविधानस्य कार्यान्वयनानन्तरं कस्यापि आपराधिक- विधानसम्बद्धाः पीडिताः, साक्षिणः, अभियुक्ताः च विवेचनस्य समक्षं उपस्थिताः भूत्वा निर्धारितस्थाने आभासीयमाध्यमेन (वीडियो कान्फ्रेंस) साक्ष्यं दातुं शक्नुवन्ति। ९० दिवसेषु कस्यापि अन्वेषणस्य प्रगतेः विषये पुलिसं सूचयितुं अनिवार्यं भविष्यति। प्रकरणसम्बद्धानि अभिलेखानि निर्धारितसमये ईमेलद्वारा प्राप्तुं शक्यन्ते। डॉ. संतोषकुमारशर्मा उक्तवान् यत् नूतनानि विधानानि १६३ वर्षपुरातनानां विधानानां स्थाने स्थास्यन्ति, तस्य उद्देश्यं दण्डं न अपि तु न्यायं दातुं वर्तते। प्रो. गिरीशशुक्लः-जनानां शीघ्रं न्यायं प्रदातुं नूतनविधानेषु बहवः प्रावधानाः कृताः सन्ति। इलेक्ट्रॉनिकसाक्ष्यस्य उपयोगेन जनानां कृते शीघ्रं न्यायं प्रदातुं बलं दत्तम् अस्ति।
हिमाचलः सज्जः, पुलिसकर्मचारिभ्यः दीयते प्रशिक्षणम्
कार्यशालायाः मुख्यातिथिः अतिरिक्तपुलिसमहानिदेशकः अभिषेक: त्रिवेदी अवदत् यत् राज्यस्य पुलिसविभागः त्रीणि नवीनविधानानि कार्यान्वितुं पूर्णतया सज्जः अस्ति। अस्य कृते विभागः बहुकालात् सज्जतां कुर्वन् अस्ति। अस्मिन् विषये सर्वेषां स्तराणां पुलिसकर्मचारिणां प्रशिक्षणं क्रियते। नूतनविधानानां विषये जनानां मध्ये जागरूकतां जनयितुं जुलै १ दिनाङ्के पुलिसस्थानकेषु विशेषकार्यक्रमानाम् आयोजनं भविष्यति।