Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- राष्ट्रपतिः द्रौपदी मुर्मू: संसदः उभे सदने संयुक्तोपवेशने सम्बोधितवती। सा अवदत् परीक्षापत्रस्रवण घटनाम् अन्वेषवितुम् अपराधिनः दण्डयितुम् च सर्वकारः प्रतिबद्धः अस्ति। राष्ट्रपतिः द्रौपदी मुर्मूः प्रोक्तवती यत् आगामि-आय-व्यय-पत्रके सर्वकारस्य भाविनीः नीतीः लक्ष्येषु च आधारितं भविष्यति।
- अमरीकी-कांग्रेस-दलस्य निम्न सदनेन पाकिस्ताने जायमानः सामान्य निर्वाचनस्य स्वतन्त्रान्वेषणस्य कृते प्रस्तावः पारितः।
- ऋतु-विज्ञान-विभागेन मध्यमा-वृष्ट्याः पूर्वानुमानं कृतम्।
- आई.सी.सी. विश्व-चषक-प्रतिस्पर्धायां द्वितीय-उपान्त्यचक्रे भारतदले इंग्लैण्ड-दलेन सह स्पर्धिष्यते।
- अखिलभारतीयदर्शनपरिषद्भारतद्वारा हेमवतीनन्दन- गढ़वाल- विश्वविद्यालयस्य दर्शनशास्त्रस्य सहायकप्राध्यापिका डॉ. कविताभट्टशैलपुत्री सम्मानिता अभवत्। परिषद: ६८ तमे वार्षिकसत्रे कश्मीरविश्वविद्यालयस्य भव्यसभाशालायां शैलपुत्री प्रो. सोहनराजतांतेड- दर्शनपुरस्कारेण सम्मानिता जाता।
हिमाचलवार्ता
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यसर्वकारः ३-६ वर्षाणाम् आयुवर्गस्य बालकानां कृते हिमाचलप्रदेशस्य प्रारम्भिकबाल्यकालस्य शिक्षायाः अनुशिक्षकयोजनायाः आरम्भं कर्तुं गच्छति, येन बालकानां सर्वतोमुखी विकासः सम्भवति।
- हिमाचलप्रदेशे दक्षिणपश्चिममानसूनः आगतः अस्ति। ऋतुविज्ञानकेन्द्रशिमला इत्यस्य अनुसारं गुरुवासरे राज्यस्य अनेकेषु भागेषु मानसूनः प्राप्तः अस्ति। शेषभागाः २-३ दिवसेषु प्रवेशं कर्तुं शक्नुवन्ति। ऋतुविज्ञानकेन्द्रशिमलाया: निदेशकः सुरेन्द्र पॉल इत्यनेन एतस्य पुष्टिः कृता।
- हिमाचले मेघविस्फोटस्य, जलप्रलयस्य वा अन्यस्य प्राकृतिकविपदायाः कारणेन मार्गाः निरुद्धा: भवन्ति चेत् पीडितानां चिकित्सायाः वञ्चनं न भविष्यति। आपदापीडितानां कृते स्थले एव समये चिकित्सा भविष्यति।एतत् केन्द्रसर्वकारस्य परियोजना भीष्मद्वारा सम्भवं भविष्यति।अस्याः परियोजनायाः अन्तर्गतं राज्यस्य बिलासपुरस्य अखिलभारतीय- आयुर्विज्ञासंस्थानम् (एम्स) समाविष्टम् अस्ति।
- लघ्वीकाशी-नाम्ना प्रसिद्धस्य मण्डीनगरस्य चतुर्दिवसीयः संस्कृतिसदने औपचारिकरूपेण हिमाचल- अन्तर्राष्ट्रीय- चलत्र- महोत्सव: आरब्धः। अस्य चलचित्रमहोत्सवस्य आयोजनं कला इन्टरटेन्मेण्ट इत्यनेन रतनसिंह सर्राफ एण्ड संज इत्यस्य सहयोगेन मिलित्वा क्रियते। मण्डीनगरे प्रथमवारं चलचित्रमहोत्सवस्य आयोजनं क्रियते। चलचित्रमहोत्सवस्य उद्घाटनं अतिरिक्त- उपायुक्त: मण्डी रोहित राठौरेण कृतम्।
- कृषिविश्वविद्यालये, पालमपुरे, शिमलाविश्वविद्यालये च कुलपते: नियुक्त्यर्थं राजभवनस्य दोषः नास्ति इति राज्यपालः शिवप्रतापशुक्लः उक्तवान्। गुरुवासरे राजभवनशिमलायां पत्रकारसम्मेलनं सम्बोधयन् राज्यपालः अवदत् यत् अहं नियमविरुद्धं किमपि न करिष्यामि। यावत् अहं तत्र अस्मि तावत् राज्यपालपदस्य गौरवं निर्वाहयिष्यामि।