Governor HP : कृषिविश्वविद्यालये, पालमपुरे, शिमलाविश्वविद्यालये च कुलपते: नियुक्त्यर्थं राजभवनस्य दोषः नास्ति – राज्यपाल: शिवप्रतापशुक्ल:
हिमसंस्कृतवार्ता: – शिमला।
कृषिविश्वविद्यालये, पालमपुरे, शिमलाविश्वविद्यालये च कुलपते: नियुक्त्यर्थं राजभवनस्य दोषः नास्ति इति राज्यपालः शिवप्रतापशुक्लः उक्तवान्। गुरुवासरे राजभवनशिमलायां पत्रकारसम्मेलनं सम्बोधयन् राज्यपालः अवदत् यत् अहं नियमविरुद्धं किमपि न करिष्यामि। यावत् अहं तत्र अस्मि तावत् राज्यपालपदस्य गौरवं निर्वाहयिष्यामि। कृषिविश्वविद्यालयस्य कुलपतिप्रकरणे राजभवने मन्त्री चन्द्रकुमारेण दत्तस्य वक्तव्यस्य विषये राज्यपालः शिवप्रतापशुक्लः पत्रकारसम्मेलने स्वस्थानं स्पष्टीकृतवान्। सः अवदत् यत् कृषिविश्वविद्यालय- संशोधनविधेयकं २०२३ अद्यापि सर्वकारेण सह अस्ति। सर्वकारात् पुनः आगत्य राष्ट्रपतिं प्रति अनुमोदनार्थं प्रेषितं भविष्यति। सः अवदत् यत् कृषिविश्वविद्यालये कुलपतिनियुक्तेः विषयः अपि उच्चन्यायालये विचार्यः अस्ति। राजभवनेन स्थगितस्य ह्रासार्थं याचिका प्रविष्टा अस्ति। पुरातननियमानुसारं कुलपतिचयनार्थं समितिः निर्मिता अस्ति, यदि शीघ्रमेव न्यायालयस्य स्थगनं हृतं भवति तर्हि कुलपतिः अपि तत्क्षणमेव नियुक्तः भविष्यति। राज्यपालः अवदत् यत् सर्वकारेण सर्वकारस्य सहमतिः आधारेण कृषिविश्वविद्यालये कुलपते: नियुक्तिः करणीयः इति प्रस्तावः प्रेषितः।