16th Finance Commission : विधानसा-उपाध्यस्य निवासस्थानस्य पुरातनमेट्रोपोलस्य च प्रतिस्थापनार्थं वित्त-आयोगात् २५० कोटिरूप्यकाणां याचना
हिमसंस्कृतवार्ता: – शिमला।
विधानसभा अध्यक्षः कुलदीपसिंहपठानिया विधानसभाया: उपाध्यक्षस्य निवासस्य, पुरातनमेट्रोपोलस्य च स्थाने १६ तमस्य वित्त-आयोगस्य अध्यक्षाय परामर्शम् अयच्छत्। सः सिसिल-अतिथिगृहे १६ तमस्य वित्तायोगस्य अध्यक्षेन डॉ. अरविन्दपनगढिया इत्यनेन सह मिलितवान्। प्रायः १९ निमेषान् यावत् चलितस्य अस्मिन् सत्रे पठानिया अवदत् यत् विधानसभायाः उपसभापते: निवासस्थानं नास्ति, तस्य निर्माणकार्यस्य व्ययः २.५० कोटिरूप्यकाणां अनुमानितम् अस्ति। सः अवदत् यत् विधायकानाम् आवाससङ्कुलं पुरातनं मेट्रोपोलम् अपि १२० वर्षाणि पुरातनम् अस्ति। अस्य पुनर्निर्माणे १६५ कोटिरूप्यकाणां व्ययः भविष्यति इति अनुमानम् अस्ति। पठानिया इत्यनेन उक्तं यत् विधानसभासङ्कुलस्य बहुतलीयभूमिगतयानस्थगनस्थलस्य मनोरञ्जनभवनस्य च निर्माणकार्यं प्रस्तावितं अस्ति, तस्मिन् ९ कोटिरूप्यकाणि व्ययितव्यानि सन्ति।
पठानियां उक्तवान् यत् विधानसभासचिवालये मॉड्यूलर उपस्करणानाम् आवश्यकता वर्तते, तस्य अनुमानितव्ययः १० कोटिरूप्यकाणि अस्ति। काष्ठजालकप्रतिस्थापनार्थं ३.५० कोटिरूप्यकाणां व्ययः अनुमानितः अस्ति। एतदतिरिक्तं विधानसभासचिवालयस्य कर्मचारिणां कृते कोऽपि आवासीयसङ्कुलः नास्ति, तस्य निर्माणार्थं ६० कोटिरूप्यकाणां व्ययः प्रस्तावितः अस्ति। एतेषां सर्वेषां निर्माणकार्याणां कृते विधानसभासभापतिः वित्तायोगस्य अध्यक्षात् कुलम् २५० कोटिरूप्यकाणां अनुमोदनं कर्तुम् आग्रहं कृतवान्। पठानिया इत्यनेन उक्तं यत् स्वातन्त्र्यात् पूर्वं १९२०-२५ मध्ये परिषद् कक्षं विट्ठलभाई भवनं च निर्मितम् आसीत् ल्।
सः अवदत् यत् परिषद् कक्षं विट्ठलभाई भवनं च धरोहरभवनानि सन्ति, तेषां बहु छेदनं कर्तुं न शक्यते। परिवर्तनशीलसमयेन सह देशः विश्वश्च आधुनिकतां प्रति गच्छति तथा च काले काले अनेकप्रकारस्य निर्माणं कर्तुं अनिवार्यं भवति। पठानिया उक्तवान् यत् परिषदः कक्षः देशस्य राज्यस्य च धरोहरः अस्ति, यस्य निर्वाहः अतीव महत्त्वपूर्णः अस्ति। विधानसभासङ्कुले उपस्थितानां एतेषां सर्वेषां भवनानां पुनर्स्थापनार्थं, परिपालनाय च प्रतिवर्षं लक्षशः रुप्यकाणि व्यय्यन्ते। पठनिया इत्यनेन उक्तं यत् सः एव प्रथमः ई-विधानव्यवस्थां कार्यान्वितवान्। तेनोक्तं यत् हिमाचलप्रदेशः पर्वतीयः राज्यः अस्ति, अत्र निर्माणकार्यस्य व्ययः अन्येभ्यः राज्येभ्यः अधिकः अस्ति। संसाधनानाम् अभावः अपि भवति, यस्मात् कारणात् व्ययः अधिकः भवति। समागमे १६ वित्तायोगस्य अध्यक्षः डॉ. पनगढिया सर्वान् विषयान् गम्भीरतापूर्वकं श्रुत्वा तेषां समाधानस्य आश्वासनम् अपि दत्तवान्।