16th Finance Commission : १६ तमेन वित्तायोगेन शिमलायां सर्वकारेण सह सभा कृता, राज्येन आपदि उपेक्षाया: विषयः उत्थापितः
हिमसंस्कृतवार्ता: – शिमला।
१६ तमस्य वित्तायोगस्य अध्यक्षः अरविन्दपनगढ़िया इत्यनेन उक्तं यत् पुरातनवृत्तियोजना आयोगस्य कृते एकः विषयः अस्ति। एतदतिरिक्तं हिमाचलप्रदेशसर्वकारस्य १५ वित्तायोगेन आपदि उपेक्षाया: विषये चर्चा कृता अस्ति। अयं विषयः अपि विचार्यः भविष्यति। राज्येभ्यः केन्द्रीयसहायतायाः विषये सर्वेषां राज्यानां अध्ययनं कृत्वा एव विचारः भविष्यति। अधुना आयोगः प्रारम्भिकचरणस्य अध्ययनं कुर्वन् अस्ति। पनगढ़िया रविवासरे राज्यातिथिगृहे पीटरहोफ शिमला इत्यत्र पत्रकारसम्मेलनं सम्बोधयन् आसीत्। अस्मिन् अवसरे चत्वारः सदस्याः आयोगस्य सचिवः अपि उपस्थिताः आसन् । ततः पूर्वं आयोगस्य अध्यक्षः सदस्याः च मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः तस्य मन्त्रिमण्डलमन्त्रिभिः सह अपि चर्चां कृतवन्तः। राज्यसर्वकारेण ९० स्लाइड्स इति प्रस्तुताः। अस्मिन् सः हिमाचलप्रदेशस्य विविधविषयेषु कथितवान् । गत 15 वित्तायोग द्वारा हिमाचलप्रदेशस्य हितस्य अवहेलनायाः विषयः उत्थापितः। राजस्वहानि-अनुदानस्य, आपदानिवारणस्य च कृते पर्याप्तं साहाय्यं न दातुं चर्चां कृतवान्। अधुना सायंकाले आयोगस्य प्रतिनिधिभिः राजनैतिकदलानां प्रतिनिधिभिः सह अपि चर्चा अभवत्। विविधविषयेषु तेषां मतं गृहीतम् ।
अवधेयं वर्तते यत्, आयोगः आगामिपञ्चवर्षेभ्यः आर्थिकसहायतायाः विषये प्रतिवेदनं निर्मास्यति। वित्त-आयोगस्य अनुशंसाः २०२६ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनात् आरभ्य कार्यान्विताः भविष्यन्ति । वित्तायोगस्य अनुशंसया राज्येषु राजस्वस्य वितरणं भवति। राज्याध्यक्ष: डॉ. अरविन्दपनगढ़िया सहित वित्त -आयोगस्य १३ सदस्यीयः दलम् शिमलाम् आगतम् अस्ति, यस्मिन् सदस्याः डॉ. मनोजपाण्डा, अजयनारायणझा, एनी जार्ज मैथ्यू, डॉ. सौम्या कान्ति घोष, सचिव ऋत्विक:पाण्डेय:, संयुक्तसचिव: राहुल जैन , संयुक्तनिदेशक अमरुथा, उपनिदेशक मानस बाजपेयी, सहायकनिदेशक कुलदीपसिंहमीणा, सहायकनिदेशक: आनंदकुमारसिंह: एवं निजीसचिव: कुमार विवेक: च सन्ति । आयोगस्य सदस्यानां दलं जूनमासस्य २५ दिनाङ्के सोलननगरं गत्वा तत्रत्यानां स्वसहायतासमूहानां जनानां साक्षात्कारं करिष्यति। वित्तायोगस्य अध्यक्ष: डॉ. अरविन्दपनगढ़िया धर्मशालाया: भ्रमणमपि करिष्यति । तदनन्तरं आयोगः नूतनदिल्लीं प्रति प्रस्थास्यति।