चीनदेशस्य मध्यहुनानप्रान्तस्य पर्वतीयक्षेत्रेषु प्रचण्डवृष्ट्या चत्वारः जनाः मृताः
चीनदेशस्य मध्यहुनानप्रान्तस्य पर्वतीयक्षेत्रेषु प्रचण्डवृष्ट्या चत्वारः जनाः मृताः, एकः व्यक्तिः लुप्तः अस्ति। अधिकारिणः विद्युत्, दूरसञ्चारः, परिवहनं इत्यादीनां आपत्कालीनप्रतिक्रियाकार्यक्रमं प्रारब्धवन्तः। आवश्यकसामग्रीणां पुनर्स्थापनार्थं प्रयत्नाः क्रियन्ते इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।
पूर्वचीनदेशस्य पर्यटननगरस्य केषुचित् भागेषु प्रचण्डवृष्टिः निरन्तरं वर्तते । एतस्मिन् समये सहस्राः जनाः निष्कासिताः, दर्शनीयानि पर्यटनस्थलानि च निरुद्धानि सन्ति ।
वर्षाकारणात् चतुर्लक्षाधिकानां जनानां जीवनं प्रभावितम् अस्ति।
चीनदेशस्य मध्यहुनानप्रान्तस्य पर्वतीयक्षेत्रेषु प्रचण्डवृष्ट्या चत्वारः जनाः मृताः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment