Public Examination Act 2024 : केन्द्रसर्वकारेण लोकपरीक्षा-अधिनियम: – २०२४ अधिसूचित:
हिमसंस्कृतवार्ता: – नवदेहली।
प्रश्नपत्रस्य रहस्योद्घाटनस्य प्रकरणे देशे सर्वत्र कोलाहलः वर्तते। इदानीं सर्वकारेण महत् निर्णयं कृत्वा प्रश्नपत्रस्य रहस्योद्घाटनं रोधयितुं कठोरं विधानं कार्यान्वितम् अस्ति। केन्द्रसर्वकारेण ‘सार्वजनिकपरीक्षा (अनुचितसाधननिवारण) अधिनियम- २०२४’ इति अधिसूचितम् अस्ति । अस्य प्रश्नपत्ररहस्योद्घाटनस्य विधानस्य उद्देश्यं प्रतियोगितापरीक्षासु प्रश्नपत्ररहस्योद्घाटनं (पेपर लीक्) प्रतिलिपिः च निवारयितुं भवति। अस्मिन् वर्षे फेब्रुवरीमासे पारितं विधानं केन्द्रसर्वकारेण शनिवासरात् (जून-२२) कार्यान्वितम्। अस्मिन् अधिनियमे अपराधिनां कृते अधिकतमं १० वर्षाणां कारावासस्य, एककोटिरूप्यकाणां यावत् दण्डस्य च प्रावधानम् अस्ति ।
अवधेयं वर्तते यत् अस्मिन् वर्षे फरवरी-मासस्य षष्ठे दिने लोकसभायां, फेब्रुवरी-मासस्य ९ दिनाङ्के राज्यसभायां च लोकपरीक्षा (अनुचितसाधननिवारणम्) अधिनियमः पारितः अभवत् । राष्ट्रपतिः द्रौपदी मुर्मू इत्यनया फरवरी १२ दिनाङ्के अस्य विधेयकस्य अनुमोदनं कृत्वा वैधानिकरूपेण परिणतम् । लोकपरीक्षाविधानम्- २०२४ इत्यस्मिन् १५ क्रियाकलापाः प्रकाशिताः सन्ति । एतेषु कस्मिन् अपि संलग्नतायाः परिणामः कारागृहपर्यन्तं दण्डः अथवा प्रतिबन्धः भवितुम् अर्हति। एतासु परिस्थितिषु ३ तः १० वर्षपर्यन्तं कारावासः, १ कोटिरूप्यकपर्यन्तं दण्डः च भवितुम् अर्हति ।
राष्ट्रियपरीक्षणसंस्थायाः (NTA) माध्यमेन आयोजितायाः UGC-NET परीक्षायाः निरस्तीकरणेऽपि तस्य विषये बहु विवादः उत्पन्नः अस्ति। तस्मिन् एव काले अस्य प्रकरणस्य अन्वेषणं कुर्वती CBI इत्यस्याः महती सूचना प्राप्ता अस्ति। सीबीआई-संस्थायाः अन्वेषणानन्तरं उक्तं यत् यूजीसी-नेट्-पत्रस्यापि रहस्योद्घाटनम् अभवत् । परीक्षायाः एकदिनपूर्वं पत्रं डार्कनेट् इत्यत्र अपलोड् कृतम् आसीत्। यूजीसी नेट् प्रश्नपत्राणि टेलिग्रामे ५००० रुप्यकै: विक्रीयन्ते स्म। पत्रं निरस्तं कृत्वा सर्वकारेण अन्वेषणस्य दायित्वं सीबीआइ इत्यस्मै समर्पितं अस्ति।
अन्वेषणकाले सीबीआई ज्ञायते यत् यूजीसी नेट् परीक्षापत्रस्य कुतः रहस्योद्घाटनम् अभवत्। प्रारम्भिक अन्वेषणेन ज्ञातं यत् सोमवासरे (जून १७ दिनाङ्के) प्रश्नपत्रमुद्घाटितं कृतम्, तदनन्तरं एन्क्रिप्टेड् सामाजिकमाध्यममञ्चे स्थापितम्। प्रकरणसम्बद्धविवरणं संग्रहीतुं सीबीआई एनटीए इत्यादिभिः संस्थाभि: सह सम्पर्कं करोति। वस्तुतः शिक्षामन्त्रालयेन बुधवासरे (जून १९) एनटीएद्वारा आयोजिता यूजीसी-नेट् परीक्षायाः निरस्तीकरणस्य आदेशः दत्तः। अपरपक्षे CSIR NET June 2024 परीक्षा स्थगिता अस्ति। CSIR UGC NET परीक्षा 25 तः 27 जून 2024 पर्यन्तं देशे सर्वत्र निर्दिष्टेषु परीक्षाकेन्द्रेषु भवितुम् अर्हति स्म।