Kangra News : टाण्डाचिकित्सामहाविद्यालयस्य नाम्ना महती उपलब्धिः, द्वे सफलवृक्कप्रत्यारोपणे कृत्वा नूतनाभिलेखं स्थापितम्
हिमसंस्कृतवार्ता: – टाण्डा।
डॉ. राजेन्द्रप्रसाद-राजकीयचिकित्सा- महाविद्यालय:, टाण्डा इत्यनेन वृक्कप्रत्यारोपणं कृत्वा नूतनाभिलेखं स्थापितम्। हिमाचलपर्यटनविकासबोर्ड-इत्यस्य अध्यक्ष: एवं नगरोटाबगवांया: विधायक: रघुवीरसिंहवाली टांडाचिकित्सामहाविद्यालये एवं चिकित्सालये पत्रकारवार्तां ् संबोधयता कथितं यत् महत्हर्षस्य विषय: यत् टाण्डाचिकित्सामहाविद्यालयस्य किडनीविशेषज्ञै: चिकित्सकै: वृक्कद्वयस्य (किडनी) सफलप्रत्यारोपणं कृत्वा कीर्तिमान विरचितम्। टाण्डा-चिकित्सालय: हिमाचलस्य प्रथमः चिकित्सालयः अभवत् यः एतादृशं अभिलेखं स्थापितवान् । उभौ रोगिणौ अधुना पूर्णतया स्वस्थौ स्तः, दिने दिने स्वस्थौ भवतः ।
पूर्वं रोगिणां वृक्कप्रत्यारोपणार्थं राज्यात् बहिः चिकित्सालयान् प्रति गन्तव्यं भवति स्म। परन्तु अधुना टाण्डायां एतां सुविधां प्रदातुं निर्धनरोगिणां धनं समयं च रक्षितं भविष्यति। राज्यस्य षट् जनपदेषु चम्बा, मण्डी, ऊना, हमीरपुरं, कुल्लु: तथा बृहत्तमस्य कांगड़ाजनपदस्य रोगिणः वृक्कप्रत्यारोपणस्य सुविधायाः लाभं प्राप्स्यन्ति।टाण्डाचिकित्सामहाविद्यालय-एवं-चिकित्सालयस्य नेफ्रोलॉजीविभागस्य विशेषज्ञः वरिष्ठः डॉ. अभिनव राणा, किडनी विशेषज्ञः डॉ. अमित शर्मा तस्य दलेन सह पीजीआई इत्यस्य विशेषज्ञवैद्यानां दलेन सह किडनी प्रत्यारोपणं कृत्वा इतिहासं रचितवान्।
टाण्डा-चिकित्सालयस्य किडनी-विशेषज्ञ-वैद्याः दीर्घकालं यावत् अस्मिन् दिशि प्रयत्नाः कुर्वन्ति स्म, २० तः अधिकानां रोगिणां पञ्जीकरणं पूर्वमेव कृतम् आसीत् गत एकसप्ताहं यावत् वृक्कप्रत्यारोपणस्य सज्जता तीव्ररूपेण प्रचलति स्म ।