HPCM : मुख्यमंत्री स्वर्गीयवीरभद्रसिंहस्य जयन्त्युपलक्ष्ये श्रद्धांजलि: अर्पयत्
हिमसंस्कृतवार्ता: – शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः रविवासरे पूर्वमुख्यमन्त्रिण: स्वर्गीयवीरभद्रसिंहस्य जन्मदिवसस्योपलक्ष्ये काङ्ग्रेसप्रदेशमुख्यालये राजीवभवने श्रद्धांजलि: अर्पितवान्। सः अवदत् यत् वीरभद्रसिंहः स्वस्य सम्पूर्णं जीवनं राज्यस्य जनानां विकासाय, कल्याणाय च समर्पितवान्। राज्यं समृद्धं आधुनिकं च राज्यं कर्तुं तस्य योगदानं सर्वदा स्मर्यते। आधुनिकहिमाचलस्य निर्माणस्य श्रेय: स्वर्गीयवीरभद्रसिंहाय एव गच्छति। प्रदेशस्य राज्यवनविकासनिगमस्य उपाध्यक्ष: केहरसिंहखाची, हिमुडा इत्यस्य उपाध्यक्ष: यशवंत छाजटा सहितै: अन्यै: गणमान्यजनै: अपि श्रद्धांजलि: अर्पिता।
रिजस्थले प्रतिमां स्थापयितुं किम् उक्तवान् मुख्यमंत्री?
अस्मिन्नवसरे मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् स्व. वीरभद्रसिंह: अस्माकं सर्वेषां कृते प्रेरणादायक: आसीत्। मया तेन सह प्रायः २०-२२ वर्षाणि यावत् कार्यं कर्तुम् अवसरः प्राप्तः तथा च निश्चितरूपेण, यथा सः काङ्ग्रेसपक्षे जनसेवां कुर्वन् आसीत्, वयं तस्य सेवाभावनाम् अग्रे नेष्यामः तथा च हिमाचलप्रदेशे तेन काङ्ग्रेसपक्षाय या नूतना दिशा प्रदत्ता या दृढ़ता प्रदत्ता, बलं च दत्तम्, वयं सर्वे तत् अग्रे नेतुम् कार्यरताः स्मः। अस्य जन्मदिवसस्य अवसरे अस्माकं सर्वेषां दायित्वं भवति यत् वयं तस्य स्मरणं कुर्याम तेन कृतानि कार्याणि च स्मरेम। एतत् अस्माकं तस्मै यथार्था श्रद्धांजलिः भविष्यति। तस्य प्रतिमानिर्माणस्य अपि आग्रहः आसीत्। वयं तानि सर्वाणि वस्तूनि पश्यामः, यतोहि ते राष्ट्रीयनेतृणां प्रतिमाः रिजस्थले स्थापयितुं वार्तां कुर्वन्ति। अस्मान् परितः अन्यस्थानानां विकासस्य विषये वदन्ति, यतः पूर्वं द्वौ वा त्रय: वा विषया: चर्चा कृता, अतः अहं तस्य विषये वदामि यत् निश्चितरूपेण स्वर्गीयवीरभद्रसिंहस्य प्रतिमास्थापनं भविष्यति।