Bilaspur News : बिलासपुर-गोलिकाकाण्डस्य विरोधे भाजपाया: प्रदर्शनम्
हिमसंस्कृतवार्ता: – बिलासपुरम्।
भारतीयजनतापार्टी इति दलेन बिलासपुरे गोलीकाण्डस्य घटनायाः विरोधे तथा च राज्यस्य निरन्तर-विधि-व्यवस्था-स्थितेः विरोधे शनिवासरे विशाल-विरोधप्रदर्शनं कृतम् । अस्मिन् प्रदर्शने पूर्वमुख्यमंत्री जयरामठाकुरः हमीरपुर-संसदीयक्षेत्रस्य सांसदः अनुरागठाकुर:, भाजपादलस्य राज्याध्यक्ष: डॉ. राजीवबिन्दल: इत्येतै: सह विधायकाः, पूर्वविधायकाः, मण्डलस्य वरिष्ठनेतारः अपि उपस्थिताः आसन् । अवधेयं वर्तते यत् यत् बिलासपुरस्य पूर्वविधायकः अस्यां घटनायां संलग्नः इति कथ्यते तथा च पुलिस प्रशासनात् यथाविधि कार्यं कर्तुं दोषीणां ग्रहणस्य च आग्रहः कृतः अस्ति। बिलासपुरे काङ्ग्रेस-भाजपा-दले समक्षं परस्परं विरोधं कृतवन्तौ। भाजपादलेन विरोधप्रदर्शनं काङ्ग्रेस-पक्षेण च विरोध-सभा कृता। एतद् सर्वं दृष्ट्वा प्रशासनं, पुलिसबलं च सावधानमस्ति।
लोकनिर्माणमन्त्रिणा विक्रमादित्यसिंहेन मल्लिकार्जुनखड़गेवर्येण मेलनं कृतम्
हिमसंस्कृतवार्ता: – शिमला।
मन्त्रिमण्डलमन्त्री विक्रमादित्यसिंहः दिल्लीनगरे कांग्रेसदलस्य राष्ट्रीयाध्यक्षेण (एआइसीसी) मल्लिकार्जुनखड़गे इत्यनेन सह मिलित्वा कर्नाटकप्रदेशे काङ्ग्रेसपक्षस्य निर्णायकविजयस्य अभिनन्दनं कृतवान्। मल्लिकार्जुनखड़गे इत्यनेन सह हिमाचलस्य विषयेषु राजनैतिकविमर्शमपि कृत्वा राज्यसर्वकारेण कृतस्य विकासकार्यस्य विषये सूचनां दत्तवान् । लोकनिर्माणमन्त्रिणा स्वीये आमुखपटले अस्य विषये सूचना प्रसारिता।