जगतप्रकाशनड्डावर्यस्य विषये टिप्पणी सत्यात् तथ्यात् च दूरे काङ्ग्रेसनेता बम्बर ठाकुरः दुःखितः अस्ति- हर्षमहाजन:
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
भाजपादलस्य राज्यसभासांसद: हर्षमहाजनः अवदत् यत् काङ्ग्रेसनेता बम्बरठाकुरः उन्मत्तः अभवत्। बिलासपुरस्य गोलीकाण्डस्य घटनायाः प्रणेता (मास्टरमाइंड) सः एव अस्ति, तस्य पुत्रः च अस्यां घटनायां पूर्णतया संलग्नः इति पुलिस, प्रशासनं, जनता च ज्ञातवती अस्ति। बम्बरठाकुरः भाजपादलस्य राष्ट्रीयाध्यक्षस्य जगतप्रकाशनड्डावर्यस्य विषये यथा टिप्पणीं करोति, तत् सत्यात् तथ्यात् च दूरे अस्ति। महाजनः रविवासरे अवदत् यत् बम्बरठाकुर: जगतप्रकाशनड्डावर्यस्य प्रतिबिम्बं कलङ्कयितुं प्रयतते। महाजनः अवदत् यत् बिलासपुरस्य पुलीसाधीक्षक: स्वशब्देषु उक्तवान् यत् पूर्वविधायकस्य बम्बरठाकुरस्य पुत्रः उच्चन्यायालये प्रतिभूत्यर्थम् आवेदनं कृतवान्, परन्तु याचिका निरस्तीकृता अस्ति। पुलिसस्य मतं यत् पूर्वविधायकस्य बम्बरठाकुरस्य पुत्रः पुरञ्जनः एव गोलीकाण्डस्य मुख्यः आरोपी अस्ति। आरोपीं गृहीतुं पुलिसैः अन्वेषणं क्रियते। तस्मिन् एव काले पुलिसैः बैहनाजट्टाग्रामस्य युवा गौरवः अस्मिन् प्रकरणे गृहीतः अस्ति। सद्यैव गृहीतः गोलिकाप्रहारक: (शूटर( सनीगिल: जूनमासस्य १५ दिनाङ्कात् आरभ्य गौरवस्य पितुः सर्वकारीयनिवासस्थाने तेन सह निवसति स्म। गृहीतस्य अनन्तरं गोलिकाप्रहारक: प्रश्नोत्तरकाले बम्बरठाकुरस्य पुत्रस्य नाम गृहीतवान् अस्ति। यदा गोलिकाप्रहारक: स्वयमेव तस्य नाम गृह्णाति तदा कार्यविधि: अधिका तीव्रा भवति ।